SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [ ण ] पुरमारूढमिति 'सिद्धशब्दकाव्यानुशासनः' इति मङ्गलश्लोकस्थस्ववचसैव प्रमाणितम् । ___एवं च सर्वशास्त्रोपकारकतया पूर्वशब्दानुशासनानां च न्यूनातिरेककठिन्यादिदोषदुष्टतया सकलसंस्कृतमहोदधिप्रविविक्षजनतोपकारार्थं शब्दानुशासननिरूपणकार्य संसाध्य, ततः परं सुखपूर्वकचतुर्वर्गफलप्राप्त्यादिरूपप्रयोजनं काव्यं व्याचक्षाणः काव्यानुशासनं सर्वाङ्गपूर्णं रचयामासेति शब्दकाव्यानुशासनयोः पूर्वापरचर्चया निर्णीतम् । काव्यानुशासनविरचनानन्तरं काव्योपयोगिछन्दसां निरूपणं स्मृतिपथमारूढमुपेक्षानह चेति तदनुशासनमिदं पूर्वानुशासनानुगतमपि पूर्व प्रदर्शितदिशा स्वकीयं वैशिष्ट्य बिभ्रद् अतिसरलपद्धत्या प्रकाशितम् । तदपि परानुशासनानुगतमपि न मौलिकतां जहातीत्यावेदितमेव । प्राध्यापकवेलङ्करसम्पादिते जयदामनामनि वृत्तकुमुमोच्चये जयदेवच्छन्द:-जयकीतिकृतच्छन्दोनुशासनम् -- केदारविरचितवृत्तरत्नाकरः - आचार्यहेमचन्द्रविरचित - छन्दोनुशासनम् - इति ग्रन्थचतुष्टयसङ्ग्रहरूपे - एतच्छन्दोऽनुशासनसूत्राण्येव प्रकाशितानि । तत्र प्रत्यध्यायं - 'आचार्यहेमचन्द्रानुस्मृतेच्छन्दोऽनुशासने' इत्येवं लेखेनास्य स्मृतिरूपत्वं प्रकटितम्-अन्यत्र च "इत्याचार्यहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्ती" इत्येवमुल्लेखो दृश्यते । तथा च सूत्राणां स्मृतिरूपत्वेन न नूतनोद्भावितत्वं, वृत्तेश्च नूतनत्वमित्यायाति, अत्र किं तत्त्वमिति परीक्षकैः शोधनीयम् । टीकाकर्तृपरिचयः । जगद्गुरु - शासनसम्राट् - सूरिचक्रचक्रवति-तपोगच्छाधिपति-विविधतीर्थोद्धारक - परमपूज्यचार्यप्रवर-श्रीविजयनेमिसूरीश्वरपट्टालङ्कराः व्याकरण - वाचस्पति - कविरत्न - शास्त्रविशारदेत्यादिपदवीविभूषिताः सप्तलक्षश्लोकाधिकपरिमितख्याकग्रन्थसम्पादकाः प्रगुरुदेवाः पूज्या: श्रीविजयलावण्यसूरीश्वराः छन्दोनुशासनस्योदाहरणादिसहितस्य सकलजनसुबोधतामापादयितुं प्राञ्जलया नातिसंक्षेपविस्तरया च सरण्या प्रद्योतनामकमिदं व्याख्यारत्नं कृत्वा बहूपकृतवन्तो जिज्ञासूनामिति टीकादर्शनेनैव प्रकटीभविष्यति सर्वेषामिति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy