________________
[ ]
न
दिषु अन्यत्र वा प्रयुक्ता ये च पठ्यमानाः श्रूयमाणा वा कर्णसुखमुत्पादयन्ति त एव भेदा इह लक्षिता:, इति कारणादेव लक्षितच्छन्दसां संख्यायाः कोऽपि क्रमो वात्रावलोक्यते । एषैव च रीतिरन्येषामपि छन्दोलक्षणकर्तृणामिति नायं विशेषः । यथैकस्या त्रिष्टुब्जातेः भेदा: प्रकृतग्रन्थे अष्टाविंशतिः, पिङ्गलछन्द:शास्त्रे द्वादशभेदा एव लक्षिताः । कचिदितोऽपि न्यूना अधिका वा । तावता कस्यापि ग्रन्थस्य न्यूनत्वमाधिक्यं निर्णेयम्, किन्तु ग्रन्थकर्तु बहुद्रष्टृत्वमल्पद्रष्टत्वं च परापतत्येव । तादृशविचारे च क्रियमाणे पूर्वेभ्य आचार्येभ्यः, परेभ्यश्चायं विशिष्यते यथासम्भवमधिकभेदोपदर्शकत्वात् । तथा च दण्डकप्रकरणं नैतावदुपबृंहितमन्यैर्यथा प्रकृतग्रन्थकर्त्रा । किञ्च सर्वस्य छन्दसः स्वयमुदाहरणोपन्यासोऽपि पूर्णरूपेण नापरत्र दृश्यते । पिङ्गल छन्दःशास्त्रादी चोदाहरणानि टीकाकृद्भिरेवोपन्यस्तानि । ग्रन्थस्यास्यान्यग्रन्थेभ्यः : तुलनारूपेण सम्यगालोचने तु प्रस्तावनाया अस्याः कलेवरं बहुलीभूतं स्यादिति तत्परित्यक्तम् । विवेचकैः स्वयमेव परस्परमेलनेन परिज्ञातुं सुशकमित्यस्माकं विश्वास: ।
प्राकृत भाषा च्छन्दोविषये तु अयं प्रशस्यतर एव । यतः प्राकृत छन्दांसि मुख्यतया प्राकृतपिङ्गले लक्षितानि । किन्तु तत्र संस्कृतेऽपि व्यवह्रियमाणानां छन्दसां लक्षणानि प्राकृतभाषयैवोपनिबद्धानीति प्राकृतानभ्यासजुषां सम्यगुपकाराय न भवन्तीति सम्प्रति तत्पठनपाठने वैरल्यं जातम् । वृत्तजातिसमुच्चये 'विरहाङ्क' कृतेऽपि प्राकृतच्छन्दसां विचारः समुपलभ्यते, किन्तु स ग्रन्थो विरलप्रचार इति नोपकर्ता लोकानामिति विज्ञायते । स्वयम्भूच्छन्दसोऽप्येषैव गतिरिति प्राकृत छन्दोविषयेऽयमेव ग्रन्थः कल्पवृक्षायत इति निर्विवादम् ।
ग्रन्थकर्तृ' परिचयादिः
कलिकालसर्वज्ञाः सर्वतन्त्रस्वतन्त्रगतय आचार्यहेमचन्द्रसूरयो बहुतरनिबन्ध रचयितारः सर्वजनविदिताः, राजद्वय सम्मानिततया च निर्णीतसंसार स्थितिसमयाश्चेति तेषां समयनिरूपणाद्यर्थमन्यमिव बहुत्रैविस्तरेण विचारितमितीदानीमिह न तत् प्रपञ्च्यते । एतच्चानुशासनं तेषां प्रधानकृतिषु तृतीयां