________________
[ ड ] परिचयश्चानुपदमेव दास्यते । अतः परं केचनार्वाचीनाः प्राचीना अपि
छन्दोग्रन्थाः प्रचलिता लोके, यथा(८) कविदर्पणम्-अज्ञातकर्तृ कम्, प्राय आचार्येणापि चचितं स्वग्रन्थे । (8) उत्पलीया टीका बृहत्संहताया १०३ तमाध्यास्य, एषाऽपि छन्दःपरिचयोप
कृतेति तत्र तत्र तदुल्लेखादवगम्यते, 'विजयानगरम्-सस्कृतमालायां मुद्रिता । (१०) छन्दोमञ्जरी गङ्गादासकृता, सम्प्रति प्रचलितपरीक्षास्वपि सन्निविष्टा ।
सा च वृत्तरत्नाकरतोऽपि सुबोधेति साऽपि बहूपयोगिनी छन्दोरसिकानाम् । (११) मन्दारमन्दचम्पूनामा छन्दोग्रन्थ: काव्यमालाया मोहमयीतः प्रचलिताया
द्विपञ्चाशत्तमकुसुमरूपेण मुद्रित इति श्रूयते । छन्दःकौस्तुभनामा छन्दोग्रन्थ: बहुत्र छन्दःशास्त्राणां टीकादिषु समुदाहृतो मूलेऽपि क्वचित्क्कचिदुल्लिखितः सम्प्रति पुण्यपत्तनस्थभाण्डारकरभाण्डारे ८६४ संख्याङ्कितो मातृकारूपेणैव स्थित इति नास्माकमद्यावधि दृग्गोचरीभूतः। ईशवीयषोडश
शतकसमुद्भ तस्य मैथिलकवेर्दामोदरस्य । (१२) वाणीभूषणं नाम छन्दोग्रन्थस्तत्कालीयमिथिलाशासकानाम् ओइनवार
वंश्यानां राज्ञां प्रशस्तिपद्योदाहारणैर्युतो विदुषां मनोहारी। नातोऽधिकाश्छन्दोग्रन्थाः सम्प्रति समुपलब्धा इति प्रतिभाति ।
प्रकृतग्रन्थस्य विशेषः प्रकृतमिदं कलिकालसर्वज्ञेन पूज्यश्रीहेमचन्द्रसूरीश्वरेण कृतं छन्दोऽनुशासनं यद्यपि पूर्वाचार्याणामेव शैलीमनुसरति, तथापि स्वकीयां विशिष्टतां बिभ्रत् मौलिकतां न जहातीत्यविवादम् । अयं च ग्रन्थ: सूत्रमयलक्षणः स्वकृतोदाहरणैश्छन्दोनामाङ्कितैस्तथानिबद्धो यथा व्युत्पित्सूनामतीवसारल्यमावहति । छन्दसां नामानि यथासम्भवं पूर्वाचार्यग्रन्थप्रसिद्धान्येव स्थापितानि । यत्र च केनाप्याचार्येण सह भेदः सोऽपि सूचितः-यथा भरतेन सह नामविसंवादस्तत्र तत्र बाहुल्येन सूचितः ।
यद्यपि प्रस्तारक्रमेणैकैकजातेः कोटिशोऽपि भेदाः सम्भवन्तीति तत्र तत्र प्रद्योते सूचितमेव । तथापि प्रस्तारान्तर्गता एव भेदा: कविभि: स्वमहाकाव्या