________________
[ 8 ] जनाचार्यः कृतेषु छन्दोग्रन्थेषु वैदिकच्छन्दसां लक्षणानि न विहितानि
स्वार्थ उपयोगाभावात् । (३) अस्मात् परं जयकीर्तेः छन्दोऽनुशासनमुपलभ्यते । तच्च प्रकृत ग्रन्थवदष्ट
भिरधिकाराख्यरध्यायः समापितम् । तत्र केवलं लौकिकसंस्कृतभाषायामुपयुक्तानि छन्दांस्येव लक्षितानि । अयमपि जैनाचार्य एव, यतो मङ्गलश्लोकेऽनेन श्रीवर्धमानस्य नतिः प्रयुक्ता। अयं च जयदेवादर्वाचीन आचार्यहेमचन्द्राच्च प्राचीन इत्यतिहासिकाः साधयन्ति । स्पष्टमेतदुक्तं HD. वेलङ्करनाम्ना प्राध्यापकेन स्मरसंगृहीतस्य 'जयदाम'नाम्नो वृत्त
कुसुमोच्चयस्य भूमिकायामाङ्ग्लभाष निबद्धायाम्। (४) 'स्वयम्भूछन्दः'कर्ता स्वयम्भूनामकोऽपि जैनाचार्य एव। एतत्कृतग्रन्थ:
एशियाटिकसोसाइटीनाम्न्याः समितेः पत्रिकायां १९३५ तमेशवीयवर्षे मुद्रित इति पूर्वोतवेलङ्करमहाशयस्य भूमिकात एवावगम्यते, अनेन च प्राकृतच्छन्दसामपि लक्षणानि विहितानि । अयमपि ईशवीयदशमशताब्दी
समुद्भूत एवेति तत एव ज्ञायते । (५) एक 'विरहाङ्क'कर्तृक 'वृत्तजातिसमुच्चय'नामक पुस्तकमपि एशियाटिक
सोसाइटीनाम्न्यां संस्थायामेवोलभ्यते । तदीयसमयः तत्कर्तुः परिचय श्च न ज्ञायते इति तस्य पौर्वापर्य निश्चेतुमशक्यम्. तथापि प्राचीनश्रेण्यामेव
तदुल्लेखोऽन्यः कृत इति वयमपि तं प्राचीनमेव मन्यामहे ।। (६ ) अतः परं केदारस्य समयः स चैकादशशतकसमुद्भ त: वृत्तरत्नाक रक्तति
च इति पूर्वमुक्तमेव । (७) अतः परं चाचार्यहेमचन्द्रस्यायं ग्रन्थ एव सर्वाङ्गपूर्णो विभाति ।
पिङ्गलाच यं विहाय प्रायः सर्वैरेव छन्दोलक्षणकर्तृभिः, लक्षणसूत्रं तद्वत्तस्य पादरूपेण, पूर्णवृत्तरूपेण वा निबद्धम् । अनेन तु पिङ्गलाचार्यरीतिरेवानुसृता। यथासम्भवमल्पाक्षगणि सूत्राणि रचितानि । पिङ्गलसूत्रवद् दुर्बोधं मा भूदिति शिष्यपरम्परोपकारार्थमन्यस्वकीय ग्रन्थवद् अस्यापि विवृतिराचार्येण स्वयमेव विहितेति बहूपकृतं लोकानाम् । एतद्ग्रन्थस्य