________________
[ ट ]
परिज्ञायते । तथा च गरुडपुराणेऽपि प्रथमखण्डस्य २०६ तमाध्याये केषांचिच्छन्दसां लक्षणानि संगृहीतानि । भरतनाट्यशास्त्रे पञ्चदशाध्याये छन्दसां लक्षणानि सम्यनिरूपितानि । दृश्यते च प्रकृतग्रन्थेऽपि लक्ष्यछन्दसो नामान्तरवर्णनस्थले भरतस्य नाम बहुधा समुल्लिखितमाचार्येण । एवं च समुपलभ्यमानप्राचीनतरछन्दोग्रन्थेषु तस्यैव पूर्वमुल्लेखो योग्यः । यद्यपि ततः परमस्य विषयस्य विस्तारः कृतः तथापि तस्य मौलिकता न लुप्यते । एतावता परम्पराप्राप्तमेवेदं शास्त्रमाचार्येण सुनिबद्धमिति तदीयमङ्गलश्लोकवृत्त्या यदुद्भासितं तत्सम्यगेवेति सिद्धम् । छान्दसिकेषु पिङ्गलाचार्य: परमादरणीयः सम्प्रति समुपलभ्यमानेषु सर्वेष्वेव छन्दोग्रन्थेषु अयमेतच्छास्त्रोपज्ञातेव समाहतो दृश्यते । एतदीयामेव शैली परेश्रिताः । लोकेषु च पिङ्गलशास्त्रं छन्दःशारूपर्यायतया प्रथितम् । ... उपालम्यमानछन्दोग्रन्थानां परिचयः (१) तत्र तावत् समुपलभ्यमानमौलिक छन्दोग्रन्थेषु सर्वतः प्राचीनतया सर्वसम्मत
पिङ्गलछन्दःशास्त्रद्वयमेव ( पिङ्गलछन्दःशास्त्रम्, प्राकृतपिङ्गलश्च ) । परत: समुपलभ्यमानेषु सर्वेष्वेव ग्रन्थेषु तस्य नामतोऽर्थतश्च समुल्लेखस्य दर्शनात् ।
तत्र चैतेषामाचायणां नामानि उल्लिखितानि दृश्यन्ते-यास्क: (पि. छ. शा. . ३.३०) ताण्डी (पि.छ.शा. ३.३६), सैतवः (पि.छ.शा. ५.१८७ ७.१०),
काश्यपः (पि.छ.शा. ७.६) इति । (२) तत: परमुपलब्धग्रन्थेषु जयदेवच्छन्दसो नाम समायति । अयं दशम
शताब्दयां ततः पूर्व वा समुद्भूतो यत उत्पलभट्टविरचितायां वराहमिहिर
कृतबृहत्संहितायाष्टीकायां ६६६ ईशवीयवर्षलिखितायां १०३ तमे - अध्यायेऽस्य नाम कीर्तितमस्ति । आचार्येणापि स्वग्रन्थेऽयमुल्लिखितः - (२.२६७; ३.५१-५२)। अयं च दाक्षिणात्य इति बहवः सम्भावयन्ति ।
अस्योल्लेखो भट्टहलायुधेन श्वेतपटशब्देन कृतः । वृत्तरत्नाकरटीकाका :: सुल्हणेन च 'शूद्रश्वेतपट-जयदेवेन' इत्येवंरूपेणास्योल्लेखः कृतः इति
श्वेताम्बरसम्प्रदायोऽयमित्यायाति, अनेन च वैदिकानामपि. छन्दसां ५ लक्षणानि कृतानीति श्वेताम्बरत्वमस्य सन्दिग्धमेव प्रतिभाति । प्रायो