SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ [ अ ] इति लिखता आचार्येणास्य शास्त्रस्याचार्य परम्पराप्राप्तत्वं स्पष्टमुद्घोषितम् । तत्र किमानुपूर्वीकेयमाचार्य परम्परेति विचारणायां प्रस्तुतायाम् तत्र तत्र ग्रन्थेषु समुद्दिष्टनाम्नामाचार्याणां नामान्येवोल्लेखयोग्यानि न तु तेषामानुपूर्वी विज्ञातु शक्यते, तत्तद्ग्रन्थनुपलम्भात्, प्राचीनतरेतिहासस्य प्राप्ताभावात् । 1 तथाहि प्र प्रदर्श्यमानरीत्या पिङ्गलेन स्वसूत्रेषु यास्क ताण्डि-सैतवकाश्यपानामुल्लेखः कृतः । ते च यद्यपि शास्त्रान्तरेष्वपि प्रसिद्धा आचार्याः, परं तेषां छन्दोग्रन्था इदानीं न समुपलभ्यन्ते इति न तदीयविषये किमपि वक्तुं शक्यम् । जयकीर्तिना स्वकीये छन्दोऽनुशासने पूर्वोदाहृतयतिनियमाङ्गीकर्तृतद्भिन्नाचार्य नामसूचकपद्ये पिङ्गल- वसिष्ठ - कौण्डिन्य-कपिल - कम्बल-भरत - कोहलमाण्डव्याश्वतराणां नामानि कीर्तितानि तेषामपि ग्रन्था अनुपलब्धा एव । एवमनेनैव विदुषा स्वग्रन्थसमाप्तिसमये पद्यमिदमुक्तम् # " माण्डव्य - पिङ्गल-जनाश्रय-सैतवाख्यश्रीपादपूज्य - जयदेवबुधादिकानाम् । छन्दांसि वीक्ष्य विविधानपि सत्प्रयोगान् छन्दोऽनुशासनमियं जयकीर्तिनोक्तम् ॥" (८.१६) सम्प्रति तु एतेन ज्ञायते यदेषां छन्दोग्रन्थास्तदानीमुपलब्धा आसन् । एषु केवलं जयदेवकृतं 'छन्द:' एव समुपलभ्यते । एतावता केवलमेतेषां प्राच्यछान्दसानां स्थितिमात्रं ज्ञायते । केदारकृतो वृत्तरत्नाकरनामा छन्दोग्रन्थः साम्प्रतमपि पठनपाठने भूयसोपयुज्यते । ऐतिहासिकगवेषका एनमेकादशशत के समुद्भूतं मन्यन्ते । यावत्यष्टीका एतत्कृत छन्दोग्रन्थस्य समुपलभ्यन्ते न सावत्यः कस्याप्यन्यस्य छन्दोग्रन्थस्यैतावतैवास्य लोकप्रियत्वमनुमातु शक्यते । अनेन केवलं लौकिकसंस्कृतच्छन्दसामेव लक्षणानि रचितानि । अतएवास्य ग्रन्थ:: estarefनबद्ध एव । महाकविकालिदासकृतत्वेन प्रसिद्धः श्रुतबोधनामाछन्दोग्रन्थोऽपि लघुकलेवर एकः प्रचलति । किन्त्वस्य बालोपयोगिल घुसङ्ग्रहरूपतया न नीतिनिर्धारकत्वमिति नायमेतत्परम्पराप्रवेशार्हः । भारते छन्द:शास्त्रे लोकानां रुचि महत्या सीदिति पुराणादिष्वपि तेषां लक्षणादिदर्शनेन ..
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy