SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ [झ ] "वाञ्छन्ति यति पिङ्गल-वष्ठि-कौण्डिन्य-कपिल - कम्बलमुनयः । नेच्छन्ति भरत-कोहल माण्डव्याश्वतरसैतवाद्या केचित् ॥ " इति (१.१३. ) स्वयम्भूनाम्ना काव्यदर्पणकर्ता स्वग्रन्थे यद्यपि जयदेवस्यापि यतिनियमाङ्गीकार उक्तः । तथा हि "जयदेव पिङ्गला सक्कयंमि दोच्चि प्र जई समिच्छति । मंडव्व-भरह- कासव-सेयवपमुहा न इच्छति ॥” इति (१.४४ ) दृश्यते च तदीयग्रन्थे सूत्रेषु तत्र तत्र यतिविचारः - यथा “म्रोन्नी याश्च त्रयः स्युः स्वरमुनितुरगैः स्रग्धरा स्याद्विरामः " ( जयदेवछन्दः, ७.२४ ) इत्येवमादयः । तथापि जयकीर्त्तिनाऽत्र तन्नामानुल्लेखः अन्ते च छन्दोवित्समुदाये तन्नामोल्लेखश्च तदीयग्रन्थपरिचयात् सम्भाव्यते । यद्यपि प्रामाणिकैतिहासिकमतानुसार जयदेवो दशमशतक केशवीयवर्ष - पूर्वधा पूर्वमेवाभूदिति निश्चीयते; तत्समयसमुद्भूतेन पिङ्गलच्छन्दः शास्त्रटीकाकहलायुधेन स्वग्रन्थे तदुल्लेखात् । जय कीर्तिश्चैकादशशतकसमुद्भूत इति तावत्कालपर्यन्तं जयदेवग्रन्थस्य प्राप्तप्रचारत्वं सम्भाव्यते । तथापि मुद्रणालययुगाभावात् तदीयग्रन्थप्राप्तिः, नवीनतया वा तन्मतोल्ले जानावश्यकता वा सम्भाव्यते इति नेदं दोषावहम् । यतेर्लक्षणं चात्रोक्तं तत्र "वाग्विरामो यतिः स्यात् संस्थाप्यते श्रुतिसुन्दरम् । पादान्ते सूचितस्थाने युक्वादान्ते विशेषतः ॥” इति (११० ) एतच्च लक्षणं 'श्रव्यो विरामः' इति पदद्वयेनं वाचार्येण संगृहीतमिति विज्ञायते । अन्यैश्च पिङ्गलं विहाय यतिमिच्छिद्भिरपि यतिलक्षणं स्वकीयग्रन्थे प्रदर्शितं न दृश्यते । पिङ्गलसूत्रस्य 'यतिविच्छेद:' ( ६.१ ) इत्यस्य व्याख्यायां हलायुधेन बहुप्रपञ्चित यतिविषये, तदेव चात्रानुगतं दृश्यते । छन्दः शास्त्र सम्प्रदायः प्रकृतग्रन्थे स्वकीयमङ्गलश्लोक व्याख्यावसरे वृत्तो 'पूर्वाचार्य शासनस्यानु'
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy