________________
[ ज 1
अपरो भेदप्रकारः
पुनरपि छन्दांसि समाधं सम-विषमभेदात् त्रिधा विभक्तानि । समः पादः समम् (१.१३. - १,१५.) इत्यादिसूत्रं रेष विभाग आचार्येण प्रपश्वितः । अन्यरपि पूर्ववतिभिः परवत्तिभिश्च छान्दसिकंरेष विभागः स्वीकृतः । अन्यरेषां लक्षणसूत्राणि न कृतानि दृश्यन्ते । अत्र तु कृतानीति विशेषः । अन्येऽपि द्विपदी, पचपदी, षट्पद्यष्टपद्यादिभेदा: प्राकृतच्छन्दः प्रकरणे व्यावणिताः, ते च प्रकाराः सर्वेऽपि प्राय एष्वेव त्रिषु -समार्ध - सम-विषमेषु यथायथमन्तर्भवन्तीति विभज्य नोक्ताः ।
वृत्तानां नामानि
1
अथ यान्येतानि श्रीः, स्त्री, पद्ममित्यादीनि छन्दसां नामानि पठ्यन्ते तान्येतानि यादृच्छिकानि, रूढानि, योगरूढानि, यौगिकानि वेति जायते विचारणा । तत्र तावत् येऽन्यत्रार्थे लोके यौगिकत्वेन प्रसिद्धास्तेऽत्र प्रयुज्य - मानाः शब्दा योगरूढाः, ये चावयवार्थवजिता यथा नर्कुटकादयस्ते यदृच्छाशब्दा एव । सर्वेषां रूढिकल्पना तु न युक्ता, यत एकस्यैव वृत्तस्य आचार्यभेदेन भिन्नानि नामानि दृश्यन्ते । एतच्च तत्र तत्राचार्येण प्रदर्शितमेव । कतिचिश्च नामानि श्रुतिगतिमनुरुध्य प्रवत्तितानि दृश्यन्ते यथा - द्रुतविलम्बितम् रथोद्धता, भुजङ्गप्रयातम्, शार्दूलविक्रीडितमित्यादीनि एषां छन्दसां श्रवणे, उच्चारणे वा तादृशार्थावगतिर्ज्ञायते । तानि च यौगिकान्यपि सन्तु । नात्रं करूपताग्रह आचार्याणामिति प्रतीयते ।
यतिनियमः
'श्रव्यो विरामो यतिः' (छन्दोऽनु. १.१६ ) इति सूत्रेण तद्वृत्त्या चाचार्येण यतिनियमाः स्फुटं प्रतिप्रादिताः । न ह्येत्रमन्यत्र छन्दोग्रन्थेऽस्य विषयस्य वर्णनं दृश्यते । छन्दःशास्त्रसम्प्रदायप्रवर्तकाचार्येषु केचन यतिनियमं नेच्छन्ति । ते च स्वाभाविकमेवैतन्मन्यन्ते, यथारुचि स्वत एवात्र लोका यतन्ते इति तेषामभिप्रायः । आचार्य हेमचन्द्रतः किञ्चित्प्राचीनेन जयकीर्तिना चैवं तेषां विभागः प्रदर्शितः स्वकीये छन्दोऽनुशासने -