________________
२७२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३२१.] नो [s] इति लक्षणसमन्वयः ॥ अ० २, सू० ३२०११ ॥ इत्थं धृतिजातिच्छन्दसां प्रसिद्धाः एकविंशति भेदा वर्णिताः। प्रस्तार गत्या तु २६२१४४ भेदा भवन्ति । तदुक्तं भरतेन 'धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु । तज्जैः शतसहस्र द्वे शतमेकं तथैव च ।। द्विषष्टिश्च सहस्राणि चत्वारिंशञ्च योगतः । चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु ॥ (भ. ना. शा. १४।६५) ॥ इति धृतिः ।। अतिधृत्यांम्सौ ज्सौ तौ गः शार्दूलविक्रीडितं ठैः ॥३२१॥
मसजसततगाः । ठरिति द्वादशभिर्यतिः। यथा-मामृत्युंगव कोशकन्दरमुखानिर्गस्य ते संगर-, क्रीडासून्मदर्वरिवारणघटाकुम्भस्थलीः पाटयन् । दंष्ट्रालो नवलग्नमौक्तिकमणिस्तोमरसॉलेखया, जिह्वालः करवाल एष तनुते शार्दूलविक्रीडितम् ॥३२११॥
अथ- उनविंशत्यक्षराम्- अतिधृतिजाति वर्णयितुमुपक्रमते अतिधृत्यां म्सौ सौ तौ गः शादलविक्रीडितं ठेरिति । विवृणोति-मसजसततगाः। ठेरिति द्वादशभियंतिरिति । मगण-सगण-जगण-सगणा: तगणद्वयं गुरुश्च 'sss. Is. Is1. ||s. ssi. ss1. s.' इतीदृशैरक्षरः कृताः पादा यस्य तत् द्वादशभिश्च यतिर्यत्र तत् शार्दूलधिक्रीडितं नाम अति धृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा-मामृदिति । हे क्ष्माभृत्पुंगव ! माभृतां राज्ञां पक्षे पर्वतानां पुङ्गवः श्रेष्ठः, तत्सम्बोधनम्, एष ते करवालः खङ्गः, संगरक्रीडातु संग्रापरूपकेलिषु कोशफन्दरमुखात् कोशः खङ्गपिधानमेव (पक्षेस इव) कन्दरः गुहा तस्यामुखात् निर्गत्य बहिर्भूय, उन्मदवैरिवारणघटाकुम्भस्थलीः उन्मदानां मत्तानां वैरिवारणानां शत्रुगजानां पक्षे शत्रूणा मिव गजानां घटायाः समूहस्य कुम्भस्थलीः स्तकभागान् पाटयन विदारयन् नवलग्नमौक्तिकमणिस्तोमः नवलग्नाः सद्य: सम्बद्धा ये मौक्तिकमणयः गजमुक्ताः तेषां स्तोमैः समूहैः दंष्ट्रालः दट्रावानिव, असृग्लेखया रुधिररेखया जिह्वालः जिह्वावानिव शार्दूलविक्रीडितम् व्याघ्रविलसितम् तनुते विस्तारयति । व्याघ्नः स्ववैरिभिर्गजैः सहसंगरक्रीडायाम्- गुहातो निःसरति तेषां कुम्भस्थलानि पाटयतीति प्रसिद्धम्- सच दंष्ट्रालो जिह्वालश्च भवति; तव