SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३१७-३१८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २६९ यमौ न्सौ सौ क्रीडा चचैः ॥३१७।। यमनसतसाः। चचैरिति षड्भिः षड्भिर्यतिः । यथा- यदि प्राप्तो भ्वषं यदि विरहितो विन्ध्याचलभुवा, वियुक्तः कान्ताभिर्यदि च तदपि स्तम्बरमपते। नरेन्द्र स्ते पूजां रचयति सदा कि चंष भवता, रणक्रीडामंत्री घटयति ततो मा गाः शुचमिमाम् ॥३१७.१॥ अष्टादशं प्रकारमाह- यमौ सौ सौ क्रीडा चर्चरिति । विवृणोति- यमनसतसाः। चचरिति षड्भिः षभिर्यतिरिति । यगण-मगण-नगण-सगण-तगणसगणाः 'Iss. sss. I. S. I. I.' इतीहशेरक्षरैः कृताः पादा यस्य षड्भिश्च यतिर्यत्र तत् क्रीडानाम धृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- यदि प्राप्त इति । हे स्तम्बेरमयते ! गजश्रेष्ठ ! यदि चेत् बन्धं बन्धनं पाररन्त्र्यं प्राप्तः लन्धवानसि, यदि विन्ध्या-चलभुवा विन्ध्यपर्वतप्रान्तभूम्या विरहितः पृथग्भूतः असि, यदि च कान्ताभिः करेणुभिः वियुक्तः रहितः असि, तदपि तथापि नरेन्द्रः राजा ते तव पूजां सत्कृति रत्रयति करोति किं च एष राजा भवता सह रणक्रीडामैत्री संग्रामरूपक्रीडायां सख्यं घटयति करोति, तत: तस्मात् इमाम् अनुभूयमानां शुचं शोकं मागांः मा विद्ध्याः। स्वातन्त्र्यं विहाय यद्यपि बन्धन प्राप्तोऽसि स्वमातृभूमेः स्वप्रियोतश्च वियुक्तोऽपि तथाप राजसत्कारं रात्रमित्रतां च प्राप्तवानसीति शोकं त्यजेतिभावः । य [0] दि [1] प्रो [5] प्तो [5] ब [s] घं [s], य [1] दि [0] वि [1] र [1] हि [1] तो [s], वि [5] न्ध्या [s] च [1] ल [1] भु [1] वा [s] इति षड्भिः षड्भिश्च यत्या लक्षणसमन्वयः ।। अ० २, सू० ३१७॥१॥ न्सो म्तो भ्रौ हरिणीपदं चचैः ॥३१८॥ नसमतभराः। चरिति षड्मिश्चतुर्भिश्च यतिः । यथा- अधिगुणधनुर्दण्डं पश्यंलुब्धकं गहने बने, सरमसमपक्रामन्नयकुश्चिन्तयन्निति ताम्यति । सरस. मधुरोगारंगीतैर्वागुराभिरिव प्रिया-, हह निगडिता दत्ते नेषा सांप्रतं हरिणी पदम् ॥३१८:१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy