________________
२६८
सवृत्तिच्छन्दोऽनुसाशनप्रद्योते [अ० २, सू०-३१६.) ऋतुश्रीत्व सन्देहो भुक्त एवेति भावः । इ [1] ह [1] कि [1] मु [1], वि [1] ल [1] स [1] ति [1] स [s] + [1] ऋ [1] तु [s] श्रीः [s]; किं [s] नु [0] मृ [I] गा [5] क्षी [5] इति चतुभिर्नवभिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३१५॥१॥
स्नज्नम्साः सुरमिस्त्रिः ॥३१६|| सनजनमसाः । त्रिरिति श्रीन वारान पञ्चभियंतिः । पञ्चभिः पञ्चभिः पञ्चमिश्च यतिरित्यर्थः । यथा- स्फुटदुज्ज्वलबकुलाकुलमधुपावलिरसितः, पवनाहतलवलीदलपटलरतिचदलः । मदने प्रियसुहृदि प्रतिभुवनं कृतविजये, सुरभिर्धवमिह गायति परिनृत्यति मुदितः ॥३१६ १॥
सप्तदशं प्रकारमाह- स्वज़्नन्साः सुरभिस्त्रिरिति । विवृणोति- सनजनभसाः। त्रिरिति त्रीन् बारान् पञ्चभिर्यतिः । पञ्चभिः पञ्चभिः पञ्चभिश्च यतिरित्यर्थ इति । सगण-नगण-जगण-नगण-भगण-सगणा: '. ॥ 11. . 50. .' इतीदृशैरक्षरः कृताः पादा यस्य पञ्चभिश्च त्रिवारं यतयो यत्र तत् सुरभिनामकं धृतिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- स्फुटदुजलेति । इह अस्मिन्समये सुरभिः वसन्तः प्रियसुहृदि प्रियमित्रे मदने कामे प्रतिभुवनं सर्वास्मिन् जगति कृतविजये विहित पराभये सतिः स्फुटदुज्वलबकुलाकुलमधुपावलिरसितैः स्फुटन्ति विकसन्ति उज्वलानि दीप्तानि बकुलानि पुष्पविशेषाणि तेषु आकुला व्याप्ता या मधुपावलिः मधुकरश्रेणी तस्या रसितैः शब्दः, अतिचपलः अतिशयचञ्चलैः पवनाहतलदलीदलदटलैः वायुना आहतः कृताधातैः लवलीदलपटलः लतादिशेषपत्रसमूहैः सुदितः हर्षितः सन् गायति गानं करोति परिनृत्यति, नर्तनं च करोति । अयमाशयः बसन्तस्य मित्रं कामोऽस्मिन् समये सर्वाणि भुवनानि जितवानिति मुदितोवसन्तः बकुलपुष्पेषु मधुकराणां नादेन गायतीव, पवनाहतलतानां लास्येन नृत्यतीवेत्युत्प्रेक्षेति । स्फु [1] ट [1] दु [s] ज्ज्व [I] ल [i], ब [1] कु [1] ला [s] कु [1] ल [0], म [1] धु [1] पा [s] व [1] लि [1], र [0] सि [0] तैः [5] इति त्रि:पञ्चभियंत्या लक्षणसमन्वयः ॥अ० २, सू० ३१६॥१॥