________________
[अ० २, सू० ३१५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२६७ र [5] म्या [5] ङ्ग [1] भा [5] जां [s]; सि [1] ते [5] वा [5] व [0] सी [s] इति त्रयोदशभिरक्षरैर्यत्यालक्षणसमन्वयः । अस्या नामान्तरमाहतारकेत्यन्ये इति । अन्ये इदं छन्दः तारकेत्याहुरिति भावः ॥ अ० २, सू० ३१४।१ ॥
नौ सौ त्यो पङ्कजवक्त्रा घझैः ।।३१५॥ ननससतयाः। घझरिति चतुभिनवभिश्च यतिः । यथा- इह किमु विलसति सर्वऋतुभीः किं नु मृगाक्षी, बहुजनजडिमविजृम्भणहेतुः कुन्दरदा वा । अमि. नवमृदुतरपलवपाणिः संभृततृष्णा, समुदितनिविडपयोधरमारा वङ्कजवक्त्रा ॥३१५.१॥
षोडशं प्रकारमाह- नौ सौ त्यो पङ्कजवक्त्रा घझरिति । विवृणोतिननससतयाः। घरिति चतुभिर्नवभिश्च यतिरिति । नगणद्वयं सगणद्वयं त..ण-यगणो '.. ॥s. IIs. ssi. Iss' इतीदृशैरक्षरः कृताः पादा यस्य चतुभिनवभिश्च यतिर्यत्र तत् पङ्कजवक्त्रानामकं धुतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-इह किमु इति । इह अत्र स्थाने समये वा सर्वऋतुश्री: सशेषामृतूनां सर्वस्वं विलसति शोभते किमु-? वा अथवा- बहुजनजडिमविज़म्भणहेतुः बहूनां जनानां जडिम्नः शौत्यस्य आलस्यस्य वा विज़म्भणस्य वृद्धः हेतुः कारणम्, कुन्दरदा कुन्दवत् माध्यपुष्पवत् रदाः दन्ता यस्याः सा, अभिनवमृदुतरपल्लवपाणिः नूतन कोमलतर वाबेव, तत्सदृशौ वा पाणी यस्याः सा संभततृष्णा संभृता पचिता तृष्णा पिपासा आसक्तिश्च यस्यां सा, समदितनिबिडपयोधरभारा समुदितः वृद्धिंगत: निबिडानां घनानां पयोधराणां मेघानां भारः यस्यां पक्षे समुदितयोः वृद्धिंगतयोः निबिडयोः पयोधरयो: भारा यस्या सा पङ्कजवक्त्रा पङ्कजं कमलमेव वक्त्रं मुखं यस्याः पक्षे पङ्कजमिव मुखं यस्याः सा मृगाक्षी विलसति किं नु- इति वित। हेमन्ते जडता शैत्यं, अस्यां च जडता प्रालस्यम्, शिशिरे कुन्द पुष्पाणि, अस्याश्च दन्ता एव कुन्दानि, वसन्ते पल्लवाः अस्यां च पल्लवाविबव पाणी, ग्रीष्मे तृष्णा, अस्यामपि कामिनां तृष्णा, वर्षासु पयोधराः मेघाः, अस्या अपि पयोधरौ स्तनो, शरदि पङ्कजानि अस्या अपि पङ्कजवन्सुखमिति- अस्या सवं.