SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २६६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३१४.] कुङ कुमारणपीवरस्तनचक्रवाकयुगाञ्चिता कुङ्कुमेन अरुणो रक्तौ पीवरी पीनी स्तनावेव चक्रवाकयुगम् तेन अश्चिता पूजिता उज्ज्वला दीप्ता मदनस्य कामस्य केलिसिन्धुः क्रीडानदी इव कामिनी अङ्गना राजति शोभते । पा[s] णि[1]पा[s]द[1]वि[1]लो[s]च[1] ना[s]; न[1]न[1]प[s][1]का[s]न[1] न[1] शा[5]लि[1]नी[5] इत्यष्टभिर्यत्या लक्षणसमन्वयः ॥ अस्या नामान्तरमाह- मालिकोत्तर मालिका वेत्यन्ये इति । अन्ये इमां मालिकाम् अथवा उत्तरमालिकामाहुरिति भावः ॥अ० २, सू० ३१३॥१॥ नौ रीनिशा डैः ॥३१४॥ नद्वयं रचतुष्टयं च । रिति त्रयोदशभियंतिः। यथा- मलयजरसलिलरम्याङ्गमाजां सिते वाससी, शरदि हवि च विभ्रतीनां विशुद्धां नवकावलीम् । विकचकुमुदकर्णपूराश्चितानां कुरङ्गीहशां, हिमरुचिकिरणावदाताभिसतुं निशा प्रेयसी ॥३१४.१॥ तारकेत्यन्ये ॥३१४.१॥ पञ्चदशं प्रभेदमाह- नौ रीनिशा डैरिति । विवृणोति-नद्वयं रचतुष्टयं च। डैरिति त्रयोदशभिर्वतिरिति । नगणद्वयं रगणचतुष्टयं च ॥ 1. SIS. Is. Is. sis.' इतीदृशैरक्षरः कृताः पादा यस्य त्रयोदशभिश्च यतिर्यत्रतत् निशानामकं धृतिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- मलयजरसेति । शरदि शरह तो मलयजरसलिप्तरम्याङ्गभाजां मलयजरसेन श्रीखण्डचन्द्रनद्रवेण लिप्तम् उपदिग्धम् अत एव रम्यं सुन्दरम् अङ्गं शरीरं भजन्तीति तासां सिते शुक्ले वाससी वस्त्रे, हृदिच उरसि च विशुद्धाम् अनवद्याम् नवैकावलीम् नवां नूतनाम् एकावलीम् एकसूत्रां मौक्तिकमालां बिभ्रतीनां धारयन्तीनां निकचकुमदकर्णप्रराश्चितानाम विकचाभ्यां विकसिताम्यां कुमुदाभ्यां रात्रिविकासिपङ्कजाभ्यां (कृतेन) कर्णपूरेण अञ्चितानां शोभितानाम् कुरङ्गीदृशाम् मृगनयनाम् स्त्रीणाम्, हिमरुचिकिरणावदाता हिमरुचिः शीतकान्तिः चन्द्रः तस्य किरणः अवदाता स्वच्छा निशा रात्रिः अभिसर्तुम् प्रियगृहं गन्तुम् प्रेयसी प्रियतमा। शरदि शुक्लाभिसारिकाणां सर्वथा शुक्ल रुपकरणः शोभितानां कामिनीनां कृते शुक्लपक्षीया रात्रिः प्रियतरा भवतीति भावः । म [1] ल [1] य [1] ज [0] र [1] स [1] लि [s] स [1]
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy