________________
[अ० २, सू० ३१३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२६५
आम्रतरी, सख्यां सहचरीरूपायां भवनपरिखापद्मिन्यां प्रासादस्य परितः खाते जलाधारे स्थितायां कमलिन्यां न्यस्तरोलम्बवर्णावलिकिसलयव्याजात् न्यस्ताः लिखिताः रोलम्बावलयः भ्रमरपङ्क्तय (एव) वर्णावलयः अक्षरपङ्क्तयो येषु तादृशानां किसलयानां नूतनपत्राणां व्याजात् कपटात् अनङ्गलेखाः मदनविषया: लिपयः आनिन्यिरे समानीताः । यतोऽनेन वसन्तेन तव बन्धूनां मित्र पुत्र सखीनां परस्परप्रेमसूचकदलानि - रोलम्बावलिरूपाक्षरपङ्क्ति सहितानि समानीतानि अतस्त्वयाऽयं सत्करणीयो नत्ववगणनीय इति भावः । अत्र बकुलादो मित्रत्वाद्यारोपः रोलम्बावली कृष्णवर्णायामक्षरपङ्क्तित्वारोपः किसलये पत्रत्वारोपश्चकृत इति वसन्तस्य नर्मसचिवत्वं ध्वनितम् । प्रि [ 1 ]य [ 1 ] स [ 1 ]खि [ 1 ] [ 1 ]धुं [s], मा[S]स्मा [s] [5] सी: [s]; मा [1] न [1] यै [s] नं [S] [1] था [S] वत् [S] इति षड्भिः पञ्चभिश्च यत्यालक्षणसंगतिः । अस्या नामान्तरमाह - विबुधप्रियेत्यन्ये इति । परे इदं छन्दो विबुधप्रियेत्याहुरित्यर्थः ॥ अ० २, सू० ३१२।१ ॥
सौ जो भ्रावुज्ज्वलं जैः ॥ ३१३॥
रसजजभराः । जैरित्यष्टभिर्यतिः । यथा- पाणिपादविलोचनाननपद्मकाननशालिनी, निम्ननाभिमहाहृदा त्रिवली तरंग विभूषिता । कुकुमारुणंपीवस्तनचक्रवाकयुगाविता, केलिसिन्धुरिवोज्ज्वला मदनस्य राजति कामिनी ॥३१३.१॥ मालिकोत्तरमालिका वेत्यन्ये ॥ ३१३.१॥
चतुर्दशं प्रभेदमाह - सौ जौ भ्रावुज्जलं जैरिति । विवृणोति - रसजजभराः । जैरित्यष्टभिर्यतिरिति । रगण-सगणी जगणद्वयं भगणरगणौ‘ऽ।ऽ. ।।5. 151. 151. ।IS SIS. ' इतीदृशैरक्षरैः कृताः पादा यस्य अष्टभिश्च यतियंत्र तत् उज्ज्वलं नाम धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- पाणिपादेति । पाणिपादविलोचनाननपद्मकाननशालिनी पाणी च पादौ विलोचने विशालनेत्रे च आननं च इत्येतान्येव पद्मकाननम् - ( सर्वेषां पद्मोपमत्वात् ) कमलवनम् तेन शालते शोभते तच्छीला, निम्ननाभि-महाहदा निम्ना- गभीरा नाभिः एव महा-हृदः यस्यां सा त्रिवलीतरङ्गविभूषिता त्रिवली वलित्रयमेव ( उदरस्थं ) तरङ्गाः ऊर्मयः तेन विभूषिता शोभिता,