SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २६४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० - ३१२.] 1 उदाहरति- यथा - अस्या वक्त्रेन्दाविति । प्रालेयांशो ! हे हिमकिरण ! लाञ्छन जिते कलङ्करहिते अस्या: कामिन्या वक्त्रेन्दौ मुखचन्द्रे चिराय बहुकालकृते विजयिनि विजयशालिनि सति त्वं दिवि आकाशे स्फुरसि सचरसि ? हे घृष्ट नित्यं सत्यं अचेतनः जडः असि । या- साकूता लोकादभुतनयनकेलि निजितलोचना साकूतः साभिप्राय: आलोकः दर्शनम्, अद्भुता आश्चर्यकारिणी नयनकेलिः नेत्रक्रीडा च ताभ्यां निर्जिते निश्चितं पराजिते लोचने यस्याः सा तथा भूतासती अरण्ये वने तस्थौ उवास, इह लोके सा कुरङ्गिका मृगी एवं उचितचतुरा उचिते कर्तुयोग्ये कार्ये चतुरा निपुणा । हे चन्द्र त्वमस्या मुखेन विजितोऽप्याकाशे संचरन् स्वधाष्टर्यं ख्यापयति तस्माज्डोऽसि, याच मृगी साभिप्रायावलोकनाश्चर्यकारि क्रीडाशालिभ्यामस्या नेत्राभ्यां स्व लोचनयो: विजितत्वे सति लज्जयाऽरण्ये गत्वा (निलीय) वाचकार सेव समुचिताचार निपुणेतिभावः । अ [s] स्या[5] [s] क्ले [5]न्दी [s], वि [1] [:]यि [ 1 ]नि [1] चि [1] रा [5] [ 1 ], ला[5] ञ्छ [1]न [1] व [s] जि [1] [s] इति पञ्चभि: सप्तभिश्च यत्या लक्षणसमन्वयः ॥ श्र० २, सू० ३११।१ ।। सौ मौ यावनङ्गलेखा चङः ॥ ३१२ ।। नसममययाः । चरिति षड्भिः पश्चभिश्च यतिः । यथा - प्रियसखि मधुं मा मावज्ञा पर्मानयेनं यथावत् तव हि बकुले क्रीडामित्रेऽस्मिन् पुत्रके चूतवृक्षे । भवनपरिखापद्यन्यां सख्यां न्यस्तरोलम्बवर्णा-, वलिकिसलय व्याजा देतेनानिन्थिरेऽनङ्गलेखाः ॥ ३१२.१ ॥ विबुधप्रियेत्यन्ये ॥ ३१२.१॥ त्रयोदशं प्रभेदमाह - न्सौ मौ यावनङ्गलेखा चरिति । विवृणोति - नसममययाः । चङेरिति षड्भिः पञ्चभिश्च यतिरिति । नगण-सगणी, मगणद्वयं, यगणद्वयञ्च '111. 115. sss. sss Iss. Iss. ' इतीह शैरक्षरैः कृताः पादा यस्य षड्भिः सप्तभिश्च यतिर्यत्र तत् अनङ्गलेखानामकं धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- प्रियसखीति । हे प्रियसखि स्निग्धसहचरि मधुं वसन्तं मा स्म अवज्ञासी: मावगणय, एनं यथावत् उचितरूपेण मानय सन्कुरु कुत इत्याह- एतेन वसन्तेन तव भवत्याः क्रीडामित्रे लीलासुहृदि बकुले, अस्मिन् पुरो दृश्यमाने पुत्रके पुत्रवत् पयः सेकेन पोषिते चतवृक्षे
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy