________________
[अ. २, सू०-३०८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२६१ स्वर्ण कमलपङ्क्तींः जनयतु उत्पादयतु, यदि वा अथवा स प्रसिद्धः स्रष्टा प्रजापतिः अपि कोटिशः असंख्याताः चन्द्रमालाः शशिश्रेणी: घटयतु रचयतु । कमलचन्द्रमण्डलाभ्यां प्राकृताभ्यां त्वन्मुखसाम्यं प्रान्तुं न शक्यदे, विशिष्यरचितैः स्वर्णकमललक्षः चन्द्रमालाभिश्च कोटिश: सृष्टाभिरेव त्वन्मुखसाम्यं प्राप्तुं शक्यत इति भावः । स[1][1]सि[1]स [1][1]सि[1]जं, [s] तद्[5]वा[5] का[5शे[s]; पा[s] [1][s]चं [s] [1]बि[5]म्बं [s] इतिसप्तभिश्चतुर्भिश्च यत्या लक्षण-समन्वयः ।।अ० २, सू० ३०७।१॥
नौ म्तौ भ्रौ ललितम् ॥३०८|| ननमतभराः। छरिति वर्तते। यथा-परममुपशमं वर्मीकृत्य स्थितेऽत्र महामुनी, प्रहरणमपरं दध्या: किचिनिशातमतीव यत् । पशुपतिविजयं स्मारं स्मारं पराक्रमर्गावत:, कलयसि ललितं पौष्पं शस्त्रं मनोभव कि मुषा ॥३०८ १॥
नवमं प्रकारमाह- नौ म्तो भ्रौ ललितमिति । विवृणोति-न-न-म-त-भराः। छरिति वर्तत इति । नगणद्वयं मगण-नगण-भगण-रगणाः '.. sss ss1. 50 5.' इतीदर्शवणैः कृताः पादा यस्य सप्तभिश्चतुर्भिश्च यतिर्यत्र तत् ललितं नाम धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- परममुप. शममिति। परमम् आत्यन्तिकम् उपशमम् अन्तरिन्द्रियनिग्रहम् वर्मीकृत्य कवचरूपेण नियुज्य स्थिते शिरतरे अत्र महामुनी अस्मिन् मुनिप्रवरे अपरम् पौष्पात् अन्यत् किञ्चित् किमपि प्रहरणम् आयुधं दध्याः धारयेः यत आयुधम् अतीव अतिशयितम् निशातम् तीक्ष्णं (स्यात्) हे मनोभव चेतोजन्मन् ! पशुपतिविजयं शिववशीकरणम् स्मारं स्मारम् स्मृत्वा स्मृत्वा पराक्रमवितः स्ववीरत्वदर्पितः त्वम् ललितं सुकरम् पौष्पं कौसुमम् अखम् प्रहरणं मुधा व्यर्थं कि कुतः कलयसि धारयसि । येन पौष्पेण शरेणत्वं पशुपतिमजैषीः तदुपर्येवं गर्वं कृत्वाऽत्रापि मुनी प्रहारं कर्तुमिच्छसीति व्यर्थी ते चेष्टा, यतोऽनेन उत्तम उपशमः कवचीकृतस्तत्र पौष्पाणां नव प्रहरणानां गतिर्नास्ति अतोऽन्यत्किमपि निशातमायुधं चिन्तयेति भावः । प[1][]म [1][][I] श[1] मं[5], व[5]र्मी[5] कृ[I]त्य[s]; स्थि[1]ते[5] [1]म[1] हा[5] मु[नौ[s], इति सप्तभिश्चतुभिश्च यत्या लक्षणसमन्वयः ॥अ० २, सू० ३०८॥१॥