SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २६० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३०७ ] तत् केसरनामकं घृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-सारङ्गाणामिति हे केसरिन् ! सिंह ! इह अत्रस्थाने सारङ्गाणां मृगाणां कुलं समूहो न, महादष्ट्रिणाम् महतां शूकरादीनां यूथं संघो न, गन्धद्विपानां मत्तगजविशेषाणां कटुः विरस: ध्वनिः जित शब्दः च कर्णातिथ्यं श्रवणविषयतां न भजति न गच्छति, तत् तस्मात् उद्यत्करः सन्नह्यद्धस्तः सन् रभसा सम्भ्रमेण दिक्ष सर्वादिशः प्रति नेत्रे नयने किमु कुतः क्षिपसि प्रेरयसि ? यद्वा अथवा ज्ञातं तव नेत्रक्षेपकारणं विज्ञातम् पवनः वायुः त्वत्केसरं तवसटां विधुवति कम्पयति । केसरिणो यानि सम्भ्रमकारणानि मृगादीनां पशूनां समीपे संचारादीनि तेषामभावे कुतः सम्भ्रम इति शङ्कायां स्वयमुत्तरितं कविना, वायुनाऽपि सटायाः कम्पनं स न सहते इति तस्य स्वभाव इति भाकः । सा[5][s]गा[s]णां,[s] न[1] कु[1]ल[1]मि[1]ह[1]ल[1]वा[s]; यू [s][s]म[i]हा[s]यं [s]त्रि[1]णां[s] इति चतुभिः सप्तभिश्च यत्या लक्षण सङ्गतिः ॥अ० २, सू० ३०६॥१॥ नौ मौ रौ चन्द्रमाला छधैः ॥३०७।। नरमवययाः छर्घ रिति सप्तभिश्चतुभिश्न यतिः। यथा- सरसि सरसिजं तद्वाकाशे पार्वणं चन्द्रबिम्ब, कुवलयनयने तावत्साम्यं नामजत्त्वन्मुखस्य । जनयतु कनक म्भोजश्रेणीर्लक्षशः स्वर्गसिन्धुर्-, घटयतु यदि वा सोऽपि स्रष्टा कोटिशश्चन्द्रमालाः ॥३०७.१॥ अष्टमं प्रभेदमाह- नौ मौ यो चन्द्रमाला छधरिति । विवृणोति-न-नम-म-य-याः । छरिति सप्तभिश्चतुभिश्च यतिरिति । नगणद्वयं मगणद्वयं यगणद्वयं च 'm. m. sss. sss. Iss. Iss' इतीदृशैरक्षरः कृताः पादा यस्य, सप्तभिः चतुर्भिश्च यतिर्यत्र तत् चन्द्रमालानामकं धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-सरसिसरसिजमिति । सरसि सरोवरे तत् प्रसिद्धसौन्दर्य सरसिजम् कमलम्, वा अथवा आकाशे पावर्ण पर्वणि पूर्णिमायां भवं चन्द्रबिम्बम् शशिबिम्बम्, हे कुवलयनयने उत्पल नेत्रे त्वन्मुखस्य तवाननस्य तावत् सर्वथा साम्यं सादृश्यं न अभजत् न गतम्; (ततश्च. तदर्थम्) स्वर्गसिन्धुः देवनदी गङ्गा लक्षशः असंख्याताः कनकाम्भोजश्रेणीः
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy