SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २५८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३०४.] रूप: चित्रलेखाः रेखाचित्राणि चित्रयति विलिखति इति पश्य अवलोकय । प्रातःकालिकाकाशस्य वर्णनमिदम् । तत्र संध्या चित्रकरी गगनवेश्मनि स्वच्छमेघकुज्योऽनेकवणे श्चित्रं करोति इति वर्णनीयम् । अस्य च प्रयोजनंसूर्याद्भय - दयसूचनमिति भावः । प[5]श्यो[s]ष्णां[s]शो[s], र[1]म्यु[1]द[1] य[1]म [1][i]ना[5], सू[5]च[1] य[5]न्ती[s] [1] []स्तात्[s] इतिलक्षणसंगतिः ॥१० २, सू० ३०३।१।। मभ्रा यिश्चन्द्रलेखा ॥३०॥ मभना यगणत्रयं च । घछरिति वर्तते । यथा- ज्वालं ज्वालं शुभग तव महान विप्रयोगानलस्तां, वाहं दाहं किमिव विरचयेदन्यदस्मात्परेण। लावं लावं विकचकमलिनीश्चूर्णयत्यं हिघातैर, लेख लेखं शकलयति तथा सा नखश्चन्द्रलेखाम् ॥३०४.१॥ पञ्चमं प्रभेदमाह- मम्नायिश्चन्द्रलेखेति । विवृणोति मभना यगणत्रयं च । घरिति वतंत इति । मगण-भगण-नगणेभ्यः परं यगणत्रयम्- 'sss. I. 1. Iss. Iss. Iss.' इतीदृशैरक्षरैः कृताः पादा यस्य तत्, चतुभिः सप्तभिश्च यतिर्यत्र तत् चन्द्रलेखानामकं घृतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- ज्वालंज्वालमिति । हे सुभग ! सौभाग्यशालिन् ! तव भवतः महान् विप्रयोगानलः विरहवह्निः तां पूर्वकथिताम् ज्वालं ज्वालं मुहुर्मुहुः प्रज्वाल्य, दाहं दाहम् अतिशयं हग्ध्वा अस्मात्यरेण इतोऽप्यधिक किमिव अनिर्वचनीयां कामप्यस्थां विरचयेत् विघ्यात् ? सा विकचकमलिनीः विकसित पद्मिनी: लावलावं छित्वा छित्वा अंहिघातः पादताडनः चूर्णयति शकलीकरोति, तथा तेनैव प्रयारेण चन्द्रलेखां चन्द्राकारां रेखां लेखंलेख आलिख्यालिख्य नखैः करजः शकलयति खण्डशः करोति । तच विरहाग्निदग्धा सा तथोन्मत्ती भूता यथा किमप्मन्यन्नाचरति- उद्दीपकविभागेषु प्रसिद्धी कमलचन्द्रमसो नाशयितुं प्रवृत्तेव, कमलानि साक्षादेव छित्मा चूर्णयति चन्द्रप्रतिकृतीश्च नाशयतीति भावः । ज्वा[s]ल [5]ज्वा[s]लं[s], सु[1] भ[1]ग[1] त[1] व[1] म[1]हान[s], वि[s]प्र[1]यो[5]गा[s]न[1]ल[5]न[s]लां[s] इति चतुर्भि: षड्भिश्च यस्या लक्षणसमन्वयः ॥१० २, सू० ३०४॥१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy