SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० - ३०३. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २५७ अशोकशाखामूले दाक्षिणात्या निलेन दक्षिणदिग्भववायुना मन्दं मन्दं शनैः शनैः कुसुमितलतावेल्लिता पुष्पितवल्लीकम्पिता स्मरविरचिता कामदेवनिर्मिता इयं दृश्यमाना क्रीडादोला लीलान्दोलनिका ( अस्ति ) अस्यां दोलायां खेलन्ती क्रोडन्ती रतिः कामजाया व्याकूजन्मत्तभ्रमर रमणीहुकृतीनाम् व्याकूजन्ती स्वनन्ती या मत्ताभ्रमरी तस्या हुङ्कृतीनां हुमित्याकारक शब्दानां छलेन व्याजेन अतितराम् अत्यन्तं गीति गानं तनोति विस्मारयति हन्त इत्याश्र्चर्ये । अन्यापि वनिता दोलारूढा गीति गायति । अत्र च या कुसुमितेलता वायुना कम्पिता सैव दोला, तस्यां च मधुकरीणां शब्दः श्रूयत इति तस्यां दोसायामारूढा रतिरेव गायती त्युत्प्रेक्ष्यते । क [5] ङ्के [s]ल्लि[S]स्क [s]न्वे[s]; कु[ 1 ]सु[1]मि [ 1 ] त [1] ल [1] ता [S], वे [s]ल्लि [1] ता [S] म [S]न्द [ 1 ] [s]न्दं [s] इति पञ्चभिः षड्भिव यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३०२।१।। घछैश्चित्रलेखा ॥ ३०३॥ चतुभिः सप्तभिश्च यतिश्चेत् संव चित्रलेखा । यथा- पश्योष्णांशोरभ्युदयमधुना सूचयन्ती पुरस्तात्, सन्ध्या सेयं चित्रयति गगनाभोगवेश्मान्तराले । शङ्खच्छेदस्वच्छरुचिरुचिराननभित्तिप्रभागानु, वर्णैः पीताता त्र शितिकपिशंस्तम्बती चित्रलेखाः ॥३०३.१॥ चतुर्थं प्रकारमाह - घछँश्चित्रलेखेति । विवृणोति चतुभि: सप्तभिश्च यतिश्चेत् सैव चित्रलेखेति । पूर्वोक्तं कुसुमितलतावेल्लितानामकमेवच्छन्दः चतुभिः सप्तभिश्च यत्या युक्तं चित्रलेखानाम्ना व्यवहृतं धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- पश्योष्णांशोरिति । सा इयं प्रत्यक्षगोचरा सन्ध्या प्रातः सन्धिवेला अधुना सम्प्रति उष्णांशोः सूर्यस्य अभ्युदयं - प्रकाशतां सूचयन्ती प्रकटयन्ती पुरस्मात् अग्रे गगनाभोगवेश्मान्तराले आकाशमण्डलरूपगृहाभ्यन्तरे शङ्खच्छेदस्वच्छरुचिरुचिरान् शङ्खच्छेदवत् कम्बुखण्डवत्र स्वच्छया शुभ्रया रुच्या कान्त्या रुचिरान् - सुन्दरान् अभ्रभित्तिप्रभागान् अभ्रं मेघ एव भित्ति कुड्यं तस्य प्रभागानु प्रदेशान् पीताताम्रशितिकपिशैः पीतं च, आता ब-ईषद्रक्तं च शितिनु च कृष्णं च कपिशश्च कृष्णलोहितञ्च तंः वर्णः "
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy