SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २५६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३०२.] यथा- देव तवारीति । हे देव ! राजन- अरिनरेशपुरन्ध्रीवकाम्बुजशशिनः अरिनरेशानां शत्रुनृपाणाम् पुरन्ध्रीणाम् सच्चरितानां स्त्रीणां वक्त्राम्बुजानां मुखानां कृते शशिनः चन्द्रसमानस्य तव भवतः उवों महती भूज. गतां सपंतां पक्षे उर्वी पृथ्वी भुज-गताम् बाहुधृतां प्रोल्लसिनाधिकविस्मयम् प्रोल्लसितः वृद्धिंगत: अधिकः विस्मय आश्चर्यो यत्र तद्यथास्यात्तथा संवीक्ष्य अवलोक्य पातालपरिवुढः पातालस्वामी शेषः प्राभृतसारकृते उपायनश्रेष्ठहेतवे निर वद्यां निष्कलङ्कां मणिमालां रत्नस्रजम् अद्यापि एतत्कालपर्यन्तमपि अनवरतं सततं मूर्धनि शिरसि धारयते स्थापयति । अयमाशय:- एतावाकालपर्यन्ते शेषनागः पृथ्वीं धारयति स्म, सम्प्रति तब हस्तेन साघृतेति भारोद्वहनानिवृत्तः शेषः सन्तोषेण तुभ्यं प्राभृतरूपेणार्पयितु निर्दोषां मणिमालां सर्वदा शिरसि धारयति अथ च स एतावत्कालपर्यन्तं स्वीयामेव भुजगतां गुरुतरां मन्यते स्म, सम्प्रति तव गुर्वी भुजगतां वीक्ष्य स्वात्मानं त्वत्तो न्यूनं बोधयितु तवोपायनाथ मणिमालां धारयते इति । दे[5]व [1]त[1]वा[s]रि[1] न[1] [5]श [1] [] [5]घ्री[s], व[5] का[5]म्बु[1]ज [[श[1]शि[1]नः[5] इति एयाशाक्षरैर्यत्या, लक्षणसमन्वयः ॥० २, सू० ३०१॥१॥ मना यिः कुसुमितलतावेल्लिता उचैः ॥३०२।। मतना यगणत्रयं च । चैरिति पञ्चभिः षड्भिश्च यतिः । यथा-कविस्कन्ये कुसुमितलतावेल्लिता मन्दमन्दं, क्रीडादोलेयं स्मरविरचिता दाक्षिणात्यानलेन । अस्यां खेलन्ती रतिरतितरां हन्त गीति तनोति, व्याकूजन्मत्तभ्रमररमणीहुंकृतीनां छलेन ॥३०२.१॥ तृतीयं प्रभेदमाह- मत्ना यिः कुसुमितलतावेल्लिता उचैरिति । विवृणोति मतना यगणत्रयं च । उचैरिति पञ्चभिः षभिश्च यतिरिति । मगण तगण-नगणेभ्यः परतो यगणत्रयम्- sss. ss I. Iss. Iss Iss. इतीदृशेरक्षरैः कृताः पादा यस्य, पञ्चभिः षड्भिश्च यतिर्यत्र तत् कुसुमितलतावेल्लितानामकं धृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- कङ्कलिस्कन्धे इति । अत्र द्वितीयपादान्ते 'दाक्षित्यानलेन' इति मुद्रितः पाठः, सनोचितः किन्तु 'दाक्षिणानिलेन' इति समीचीनः पाठः कल्पनीयः । कङ्कल्लिस्कन्धे
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy