________________
[अ० २ सू०-३०१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२५५ अथाष्टादशाक्षरपादां धृतिजाति वर्णयितुमुपक्रमते- धृत्यां भ्रभ्यारौ काश्ची टैरिति । विवृणोति- मरभयरराः। टैरिति एकादशभिर्यतिरिति। मगण-रगण-भगण-यगणा रगणद्वयं 'sss. SIS. I. Iss. sis. I.' इतीदृशंरक्षरः कृताः पादा यस्य तत् धृतिनामकमत्यष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- सम्प्राप्तेऽस्मिन्निति । हे मुग्धे ! अपरिपक्कबुद्ध ! अस्मिन् प्रत्यक्षदृष्टपूर्वे जगच्चक्षुषि लोकनेत्रे रवौ सूर्ये प्रत्यग्गिरेः पश्चिमाचलस्य गद्वरं गुहां सम्प्राप्ते गते सति, प्रेयःमतवेश्माभिशरणे प्रियतमेन सङ्केतितस्य अभिसरणस्थानत्वेनोलस्य वेश्मनः अभिसरणे प्रतिगमनसमये, ध्वान्तानुरूपम् तमसातुल्यरूपम् पिधानांशुकम् आवरणवस्त्रं मुधैव व्यर्थमेव किसु कुतो घत्से धारयसि- चेत् यदि इमं सर्वतः श्रूयमाणम्- क्वणत्काञ्चीमञ्जोरकोलाहलम् कणतोः शब्दायमानयोः काञ्चीमञ्जीरयोः रसनानूपुरयोः कोलाहलं घोररवम् औत्सुक्ययोगात् उस्कण्ठापारवश्यात् निषेधुं निवर्तमितुं न शक्ता न समर्था । सायं समये जाते कृष्णाभिसारिका त्वं तमसि निलीम गमनाथं कृष्णवस्त्रं पिधाय यद्गच्छसि तस्य यत्कार्य लोकरज्ञायमानत्वं तच्चेक्वणतोरनयोर्भुषणयोः शब्देन विफलीकृतं तहि तादृशवस्त्रपिधानमपि व्यर्थमेवेति पूर्वमेतयोः शब्दमेव वारयेति भावः। सं[s]प्रा[s]प्रे[स्मिन् [s]ज[1] ग[5] च[s][1] षि[1] [1]वौ [s] प्र[5]त्य[s]ग्गि[1]रे [5] गं[5] [1] रम् [s] इति लक्षअसमन्वयः। अस्य नामान्तरेणापि व्यवहार इत्याह- चाचालकाश्वीत्यन्ये इति ॥अ० २, सू० ३००।१।।
मिम्भसा मणिमाला ॥३०१।। भत्रयं ममसाश्च । टैरिति वर्तते । यथा- देव तवारिनरेशपुरन्ध्रीवक्त्राम्बुजशशिनः, प्रोलसिताधिकविस्मयमुवी संवीक्ष्य भुजगताम्" प्राभूतसारकृते निरवद्यामद्याप्यनवरतं, मूर्धनि धारयते यणिमालां पातालपरिवृढः ॥३०१.१॥ - द्वितीयमस्याजातेः प्रभेदमाह-भिम्भसा मणिमालेति । विवृणोति-भत्रयं मभसाश्च ।-टैरिति वर्तते इति । तथा च मगणत्रयात्परतः मगण-मगण सगागाः SII. I sl. sss. I. 15. इतीदृशैरक्षरः कृता: पापा यस्य, एकादशमिभिश्च यतिर्यक् तत् मणिमालानामकं धृतिजातिच्छन्द इत्यर्थः । उदाहरति