SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-२६८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २५३ ग्ध [1] म [1] ते [s] स [1] त [1] सं [s] इत्ति लक्षण समन्वयः । अस्य नामान्तरमन्य सम्मतमाह नर्कुटकमिति जयदेव इति । तथा हि स्वकीयच्छन्दोऽनुशासने स आह- नजभजजालगीच यदि नकुंटके तुतदा । (७।१८). इत्ति । तथा च लक्षणसाम्येऽपि नामान्तरे एव विसंवादः ॥१० २, सू० २६ ।१।। तत् कोकिलक छचैः ॥२९८।। तदवितथं छचः सप्तभिः षड्भिश्च यतिश्चेत् कोकिलकसंज्ञम् । यथाकलयति कोकिले मधुरपञ्चमगीतिमिमां, मलयसमीरणो भवति पश्यत नाव्यगुरुः । इह हि यदाज्ञया नवनवाद्भुतभङ्गिजुषः, किसलयहस्तकान् वितनुते सहकारलता ॥२६८.१॥ इह केचिदष्टभिः पञ्चभिश्च यतिमिच्छन्ति ॥२६८.१॥ त्रयोदशं प्रकारमाह-तत्कोकिलकं छचरिति। विवृणोति-तद् अवितथं चछः सप्तमिः षड्भिश्च यतिश्चेत् कोकिलकसंज्ञमिति। तथा च गणविन्यासस्य पूर्वसमत्वेऽपि केवलं विरामभेदादेव नामभेदः । उदाहरति-यथाकलयतीति । कोकिले पिके मधुरपञ्चमगीतिम् श्रुतिसुखपञ्चमम्वरगानम् कलयति गायति सति मलय-समीरणः दक्षिणदिग्वायुः नाट्यगुरुः नृत्यशिक्षकः भवति जायते (इत्ति) पश्यत अवलोकयत, हि यतः इह वसन्तसमये यदाज्ञया यस्य मलय समीरणस्य आज्ञया निर्देशेन सहकारलता आम्नवल्ली नवनवादभुतभडिजषः नूतनातिनूतनकौटिल्यशालिनः . किसलयहस्तकान् नूतनपल्लवरूपहस्तचालनानि वितनुते करोति ॥ म [1] ल [1] य [1] स [1] मी [5] र [1] णो [s], भ [1] व [1] ति [1] प [5] श्य [1] त [1], ना [s] ट्य [1] गु [0] रु: [s] इति सप्तमिःषड्भिश्च यति पूर्वकं पूर्वच्छन्दसो लक्षणसमन्वयः । अत्र परामिमतं भेदमाह इह केचिदष्टमिः पञ्चभिश्च यतिमिच्छन्तीति। अष्टमे पञ्चमे च विरताववितथं वृत्तं कोकिलकसंज्ञमिति तेषामाशयः, परमीशमुदाहरणं मृग्यम् ।।अ० २. सू० २९८॥१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy