________________
[अ० २, सू०-२६५-२६६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २५१
___ नस्मम्यल्गा रोहिणी ॥२९५|| नसममयलगाः । चर्घरिति वर्तते । यथा- कुवलयमुदं व्यातन्वानः पूर्णोबसन्मण्डलः, शिरसि घटयन पादन्यासं निःशेषपृथ्वीभृताम् । उदयमधुना प्राप्तः भीमसिद्धेन्द्रसूनो भवान्, इव कृतबुधानन्दः सोऽयं श्रीरोहिणीवल्लभः ॥२९५.१॥
दशमं प्रकारमाहे- नस्मम्यल्गाः रोहिणीति । विवृणोति-नसममयलगाः। चरितिवर्तत इति । नगण-सगणी-मगणद्वयं यगणोलघुगुरू च [111.15.sss.sss ISS.IS.] इतीदृशंरक्षरः कृताः पादा यस्य, षड्भिश्चतुभिश्च यतियंत्र तत् रोहिणीनामकमत्यष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथाकुवलयमुदमिति । श्रीमत्सिद्धेन्द्रसूनो ! नियायुक्तः सिद्धेन्द्रस्य सिद्धराजस्य सूनुः पुत्रः तत्सम्बोधनम्- कुवलयमुदं कमल प्रसादं व्यातन्वानः कुर्वाणः, पक्षे कुवलयस्य भूमण्डलस्य मुदं हर्ष व्यातन्वान: पूर्णोल्लसन्मण्डलः पूर्ण सकलकलाभिः, सकलैश्वाङ्गः सम्पन्नं उल्लसत् प्रकाशमानं मण्डलं विम्बं राज्यं च यस्य सः, निःशेषपृथ्वीभृताम् सकलभूधराणां- सकलराज्ञां च शिरसि शिखरे मस्तके च पादन्यासं चरणनिःक्षेपं घटयन् रचयन् कृतबुधानन्दः कृत: सम्या दितोबुधस्य स्वपुत्रस्य, पक्षे पण्डितस्य आनन्दो येन सः, सः अयं श्रीरोहिणीवल्लभः चन्द्रः भवानिव त्वमिव अधुना सम्प्रति उदयं प्रकाशं, पक्षे उन्नति प्राप्तः अधिगतः। राज्ञः चन्द्रस्य च समान विशेषणः, साम्यं प्रदर्शितम् । कु[1]व[1]ल[1]य[1]मु[1][s]; व्या[5]त[5] न्वा[5]नः[s]; पू[s] ![5]ल्ल[5]न्म[s]ण्ड [1]ल:[s], इति षड्भिश्चतुर्भिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सूत्र-२६५.१ ॥
नुर गौ वसुधारा डैः ॥२९६|| नुरिति पञ्च नगणाः गुरुद्वयं च । रिति पञ्चभिर्यतिः यथा- प्रणतसुरविसरमणिमुकुटतटकोटि-, परिघटितचरणनखरुचिनिचयरम्ये । इह भवति भगवति विहरति जिननाथे, प्रतिभवनभिपतति जगति वसुधारा ॥२६.६.१॥
एकादशं प्रकारमाह- नुर् गौः वसुधाङरिति । विवृणोति-नुरिति