________________
२५०
सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ०२, सू० - २९४.]
भावः । क [ 1 ]थ [ 1 ] [ 1 ] कि [ 1 ]मि [1][3], ल [5]क्ष्म [s]च्छा [s] या [5]; शु [1]चे[s]स्तु[1]क[1]थं[s]भ [ ] वेत्[S], षड्भिश्चतुभिश्च यत्या लक्षणसङ्गतिः ॥ अ० २, सूत्र - २६३.१ ॥ ।
नः स्मो तो गौ पद्मम् ||२९४||
नसमततगगाः । चर्धरिति वर्तते यथा- त्यजत मनुजा जातेर्गव कि तयेकया स्यात्. गुणपरिचयो लोकेऽत्यन्तं हन्त दत्ते प्रतिष्ठाम् । अजनि चुलुकाचान्ताम्भोषिः कुम्भजन्माप्यगस्त्यः, कुलगृहमभृद्देव्या लक्ष्म्याः पङ्कजातं च पद्मम् ।।२६४.१।।
नवमं प्रकारमाह - नः स्मौ तौ गौ पद्मम् इति । विवृणोति - न-स-मततगगाः । चरिति वर्तत इति । नगण सगण - मगणाः नगणद्वयं गुरुद्वयं च [ 111.15 SSS SS SS SS ] इतीहरीरक्षरैः कृताः पादा यस्य तत् षड्भिश्चतुभिश्च यतियंत्र तत् पद्म' नामात्यष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथात्यजत मनुजा इति । हे मनुजाः मनुष्याः ! जातेः ब्राह्मणत्वादिजन्मलभ्यसामान्यस्य गवं अभिमानं त्यजत परिहरत तथा जात्या एकया केवलया 'एव कि स्यात् किमपि नस्यात्- इति भावः । हन्त ! गुणपरिचयः गुणाभ्यासः लोके अत्यन्तं अतिशयं प्रतिष्ठां सम्मानं दत्ते प्रदिशति । कुम्भजन्मा घटोत्पत्तिः अपि अगस्त्यः तन्नामा मुनिः चुलुकाचान्ताम्भोषिः चलुकेन आचान्तः पीतः अम्भोधिः समुद्रो येन तथा भूतः अजनि जातः, पङ्कजातम् पङ्कादुत्पन्नम् पद्मम् कमलम् - लक्ष्म्याः देव्याः कुलगृहम् प्रधानागारम् अभूत् । गुणविना केवलमुच्च कुलसम्मूतत्वमात्रेण गर्यो न कार्यः, तस्याकिञ्चित्करत्वात् । क्षुद्रकुलोत्पन्नोऽपि गुणैर्युतश्चेत्स प्रशस्य एवेति सामान्योऽर्थः विशेषाभ्यां घटादुत्पन्नस्यागस्त्यस्याम्भोधिपानम् - पङ्कादुत्पन्नस्य कमलस्य लक्ष्मीगृहत्वमित्येताभ्यामर्थाभ्यां समर्थित इत्यर्थान्तरन्यासोऽयम् । स्य [1]ज[1]त[1]म[1]नु[1]जा[s], जा[5]ते [s][s]र्व[s], कि [s] त [1] ये [s] क [1] या [s] स्यात् [s] इति षड्भिश्चतुर्भिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सूत्र - २६४.१ ॥