SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-२६३] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २४९ विस्तारयन्ति। शून्ये नगरे सर्पादीनामेव निवासात्- सर्पः मुक्ताः कञ्चका लम्बमाना: वायुप्रेरणया प्रेङ्खन्तश्च श्वेतपताकासादृश्यं भजन्त इति भावः । प्रा[s]सा[s]दे[5]षु[s]. त्व[1]द[1]रि[1]न[1][1]रे[s]; शू[s]न्य[s]त्व[1] भा[s]से [s][s]षि[s] (द्वितीय पादाकि संयोगे पयतः सत्यस्य गुरुत्वम्)चतुर्भिः षङ्गिश्च थतिरपीति लक्षणसमन्वयः ।। अ० २, सू०-२६२.१ ॥ न्सौ म्रौ स्लो गो हारिणी चधैः ॥२९३॥ नसमरसलगाः। चर्धरिति षड्भिश्चतुभिर्यतिः । यथा-कथय किमियं लक्ष्मच्छाया शुचेस्तु भवेत् कथं, तव हिमरुचे यद्वोत्सङ्गे कृतः कृपया ध्र वम् । नमसि रभसाद् बद्घाटोपप्रषावितलुग्धक, क्षुमितहरिणीगर्भाद् भ्रष्टः कुरंमक एव हि ।। वृषभललितमित्येके ॥२६३.१॥ अष्टमं प्रकारमाह- सौ म्रौ स्लो गो हरिणी चचैरिति । विवृणोतिनसभरसलगाः। चर्घ षडभिश्चभिश्च यतिरिति । नगण-सगण-मगणरगण-सगणा: लघुगुरू च [m. IIs. sss. SIS. II. Is ] इतीदृशैरक्षरः कृताः पादा यस्य तत्, षडिभश्चतुर्भिश्चयतिर्यत्र तत्, हरिणीनामक मत्यष्टि जातिच्छन्द इत्यर्थः । उदाहरति- यथा-कथयेति । हे हिमरूचे ! शीतकान्ते चन्द्र ! इयं दृश्यमाना लक्ष्मच्छाया लाञ्छन कान्तिः किम् ? इति कथय; (अवचने स्वयमेव समाधत्ते) तु किन्तुः शुचेः शक्कस्य पवित्रस्य वा (तव इयं) कथं भवेत कुतः सम्भाव्यते, (लाञ्छनं हि अपवित्रस्य जनस्य भवति) यद्वा अथवानभसि आकाशे बद्धाटोपप्रधावितलुब्धक-क्षुमितहरिणीगर्भात्- बद्धाटोपं कृताडम्बरं यथास्यात् तथा प्रधावितात् कृतानुसरणप्रयत्नात्- लुब्धकात्- व्याघात् क्षुभिनाया भीनाया हरिण्या: गर्भात् उदरात्- रभसात वेगाद् भ्रष्टः पतित: कुरङ्गकः बालमृग एव कृपया कारूण्येन उत्सङ्ग क्रीडे कृतः स्थापितः ध्र वम् निश्चितम् । चन्द्रमसि निर्मले कलङ्गाशङ्कामपह नुत्यव्याधानुद्रुतहरिणीगर्भपतित्कुरङ्गशावकधारणमुत्प्रेक्षितमित्यपह नुति-गर्भोत्प्रे क्षा । अस्य नामान्तरमाह- वृषभललितमित्येक इति । केचिदिदं छन्दो वृषभललितनाम्नाव्यवहरन्ति- इति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy