SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २४८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-२६२ ] · षष्ठं प्रकारमाह- मनरसल्गा: भाराकान्तेति । विवृणोति मभनरसलगाः। घचैरिति वर्तत इति । मगण-भगण-नगण-रगण-सगणाः लघुगुरूच [sss.su.III.SIS.S.15.] इतीदृशैरक्षरः कृताः पादा यस्य चतुभिः पञ्चभिश्च यतिर्यत्र तत् भाराकान्तानामा मत्यष्टिजातिच्छन्द इत्यर्थः । उदाहरतियथा- चौलुक्येन्द्रेति । हे चौलुक्येन्द्र ! त्वं चेत् यदि इह लोके इमां वसुमती न धारयेः न बिभृयाः, तदा-कूर्मक्रोडाधिप फणिपतिद्विपाद्रिषु कच्छपमहावराह-शेषनाग-दिग्गज-कुलपर्वतेषु पृथ्वीधारकेषु सत्स्वपि विद्यमानेष्वपि, दिशां- आशानां विजये जयप्रसङ्गे सर्पन्त्या चलन्त्या ते तव करटिघटया हस्तिसमूहेन भाराकान्ता भारेणनम्रीभूना वसुमती पृथ्वी अधः नीचः निपतेत् भ्रश्येत् । चौ-[s]लु[s]क्ये[5]न्द्र, [5]त्व[1]मि[1]ह[1] न[1]हि[1]जे[s], दि[1]मां[s]कि[1]ल[1]धा[s] र[1]ये:[5] इति चतुर्भिः षड्भिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सूत्र-२६१.१॥ मभ्नम्यल्गाः हारिणी ॥२९२॥ ममनमयलगाः । घचैरिति वर्तते । यथा-प्रासादेषु त्वदरिनगरे शून्यत्वमासेदुषि, श्रीचौलुक्य क्षितिपतिशिरश्चूडामणे संप्रति । प्रेखोलन्तो विषधरशतालम्बिताः कञ्चुका, व्यातन्वन्ति ध्वजपटतुलामुच्चमनोहारिणीम् ॥२६२.१॥ सप्तमं प्रकारमाह- मम्नम्यल्गाः हारिणीति । विवृणोति मभनमयलगाः । घचरिति वर्तत इति । मगण-भगण-नगण-मगण-यगणाः लघुगुरू च [sss sil. m.sss Iss.Is ] इतीदृशैरक्षरः कृताः पादा यस्य चतुर्भिः षड्भिश्च यतिर्यत्रतत् हारिणीनामकमत्यष्टिजातिच्छन्द इत्यर्थः । उदाहरति-यथा-प्रासादेषु इति । क्षितिपतिशिरश्चूडामणे ! क्षितिपतीनां भूमिपानां शिरचूडामणे मूर्धमुकुटरत्न श्रीचौलुक्य ! श्रियायुतः चौलुक्यः चुलुक्यवंशसंभूतः तत्सम्बोधनम्, शून्यत्वम् जनसंपर्कराहित्यम् आसेदुषि प्राप्तवति त्वदरिनगरे तवशत्रूणां पुरे सम्प्रति अद्यत्वे विषधरशतैः शतश: सर्पः व्यालम्बिताः ऊर्ध्वाधः प्रसारिताः प्रेङ्खोलन्तः आन्दोलन्तः कञ्चुकाः सूक्ष्मत्वचः उच्चैः अतिशयम मनोहारिणीम् रमणीयां ध्वजपटतुलां केतुवस्त्रसादृश्यं व्यातन्वन्ति शून्यसप्रति अद्यत्वे विआन्दोलन्तः कला के
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy