SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ [अ. २, सू०-२६१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २४७ कनकमय कलससमूह निःसृत धाराप्रपातं कथं सोढा इति शङ्कितेन जातशङ्केन वज्रिणा महेन्द्रेण दृष्टः अवलोकितः, पश्चात-चरणाअष्टपर्यन्तलीलामन्दाक्रान्तामरगिरिशिरः कम्पतः चरणस्य पादस्य अङ्गुष्ठपर्य-तेन वृद्धाङ्गुलिप्रान्तेन लीलया अनायासेन मन्दं यथास्यात्तथा आक्रान्तस्य अमरगिरेः सुमेरोः शिरः कम्पत: शिखर चलनात्- विस्मितेन चकितेन वज्रिणा दृष्टः स चरमजिन: चतुर्विंश तीर्थङ्करः जयति । जन्म समये यस्य सौकुमायं दृष्ट्वा अयं कथं जन्माभिषेके कनककलशधारापातं सहिष्यतीति इन्द्रस्य शंकाऽभूत् पश्चाच्च यदा तदीयपदाङ्गुष्ठप्रान्तभारेणामरगिरिः कम्पितस्तदा कथं जातमात्रस्येयान्भार इत्याश्चर्यमभूदिति भावः । ज[s]म्न[s] स्ना[s]ने [s], स[1]च[1][i] म[1]जि । 'नः[s], स्व[5][कु[sjम्भौ [s]घ[1]धा[s] रा[5] इत्यं चतुर्भिः षड्भिश्च यतिभ्यां लक्षण समन्वयः । अस्य नामान्तरमाह- श्रीधरेति भरत इति । तथा हि मो भनी चस्यूश्चरणरचितास्तौ गुरूच प्रविष्टा-श्छेदः श्विष्टो यदि च दशभिः स्यात्तथान्यश्चतुभिः । अत्यष्टौ च प्रतिनियमिता वर्णत: स्पष्टरूपा सा विज्ञेया द्विजमुनिगणः श्रीधरानामतस्तु (भ० ना० शा० १५-१०८) केवलमियानत्र भेदो यत् श्रीधरायाम् उक्त मतेन (भरतमतेन) दभि चतुर्भिश्च यतिः स्वमते च मन्दाक्रान्तायां चतुभिः षड्भिश्चेति । कालिदासादि कृतश्लोकेष्वपि- ( त्वदीयलक्षणग्रन्थे श्रुतबोधेऽपिच ) चतुभिः षडभिः (पारिशेष्यात्सप्तभिः ) च यतिरिति दृश्यते । भरत नाट्यशास्त्रेऽपिच मुख्योदाहरण रूपेण यत्पद्यमुपन्यस्तमस्ति तत्र चतुभिः षभिः [ परिशेषे सप्त भिश्च ] यनिर्दृश्यत इति उपरिलिखितं भरतनाट्यशास्त्रस्थं लक्षणं प्रक्षिप्त प्रतिभाति । मूलरूपं लक्षणं च-कारिकाभ्यां प्रदत्तं, तत्र यतिनियमो न दत्तः, तथा चात्र यथा श्रव्यता सम्पद्यत तथा यतिः कार्येतिः समायाति । परिवत्तिभिः सर्वेरेव लक्षणकारः चतुभिः, षड्भिः , सप्तभिश्च यतेराहतत्वेन, तदेव भरतस्याप्यनुकूलपिति प्रतीयते ॥ अ० २, सू०-२६०.१ ॥ मनरसल्गाः भाराक्रान्ता ॥२९१।। मभनरसलगाः । घचंरिति वर्तते । यथा- चौलुक्येन्द्र स्वमिह न हि चेदिमा किल धारयः, कूर्मकोडाधिपणिपतिद्विपादिषु सत्स्वपि । सत्या ते करटिघटया दिशां विजये तदा, भाराकान्ता नृप वसुमती क्षणानिपतेवध: ॥२६१.१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy