________________
૨૪૬
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ. २, सू०-२६०.] यथा- माघस्य इति धातेति । जलक्रीडावसानवर्णनमिदम्- इति पूर्वोक्तप्रकारेण धौतपुरन्ध्रिमत्सरान् धौतः प्रक्षालितः पुरन्ध्रीणाम् सुचरितानां कीणां मत्सरो द्वेषः यः तान् सरसि मज्जनेन ह्रदे स्नानेन अतिशायिनी बहुलां श्रियम् कान्तिम् अवाप्तवतो लब्धवतः, अपगतमलाङ्गभासः अपगतं जलेन क्षालितं मलं यम्याः तथा भूता अङ्गभाः शरीरकान्तिः येषां तान् यादवान यदुवंशीयान् श्रीकृष्णयोधान् इति एवं रूपान् अवलोक्य प्रेक्ष्य तदा तस्मिन् काले शिशिरेतररोचिषा सूर्येण अपि अपां जलानां ततिषु राशिषु मङ्लुम् बुडितुम् ईषे इष्टम् । जलक्रीडायां सर्वाभि: सह यथायोगं क्रीडया-सपत्नीनां परस्परं मत्सरः नाशितः, स्वयं च ते निर्मलकान्तयः सञ्जाता इति यादवानां स्नानफलमवलोक्य तदवाप्तुमिव सूर्योऽपि स्नातुमियेष । सूर्यास्तसमयोजात इति भावः । अस्य नामान्तरमाह- 'यादवीत्य ये' इति । अन्ये इदं छन्दो यादवीत्यादुरित्यर्थः । इ[1]ति[1] धौ[s]त [[][s] न्ध्रि[1] म[5] त्स[I] रान्[s] स[1] र[1] सि[1]म[5]ज[1]ने[5]न[5] द्वितीय पादादिभूत संयोगेऽस्य गुरुत्वम् ) दशमिर्यतिरिति लक्षणसङ्गतिः ।। अ० २, सू०-२८६.१॥
मो नौ तौ गौ मन्दक्रान्ता घचैः ॥२९०|| ममनततगगाः । घरिति चतुभिः षड्भिश्च यतिः । यथा- जन्मस्नाने स चरमजिन: स्वर्णकुम्भौघधारा-, सारं सोढा कमिति पुरा वघ्रिणा शडितेन। दृष्टः पश्चाजयति चरणागुष्ठपर्यन्तलीला-, मन्दाक्रान्तामर गिरिशिरः कम्पतो विस्मितेन श्रीधरेति भरतः ॥२६०.१॥
पञ्चमं प्रकारमाह- मो भौ तो गौ मन्दाकान्ता घचरिति । विवृ. णोति- मभनततगगाः। घचैरिति चतुभिः पञ्चभिश्च यतिरिति । मगण भगण-नगणाः नगणद्वयं गुरुद्वयं च [sss.51.11.SsI.ss.ss ] इती दृशेरक्षरः कृताः पादा यस्य, चतुभिः पञ्चभिश्च यतिर्यत्र तत् मन्दाक्रान्तानामक मत्यष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- जन्मस्नाने स इति । जन्मस्नाने जन्मकालिके प्राथमिकाभिषेके पुरा प्रथम- स्वर्णकुम्भौघधारासारं