SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ [अ. २, सू० २८८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २४५ तृतीयं प्रकारमाह- भ्रौ न्भी न्लो गो वंशपत्रपतितं बैरिति । विवृणोति भरनभनलगाः । जैरिति दशभिर्यतिरिति । भगण-रगण-नगण-भगण-नगणाः लघुगुरू च [sI.SIS....is.] इतीदृशर्वर्णः कृताः पादा यस्य दशभिश्च यतिर्यत्र तत् वंशपत्रपतितं नामात्यष्टि जातिच्छन्द इत्यर्थः । उदाहरतियथा- जर्जरसारीति त्वयि रणाङ्गणम् संग्रामभूमिम् अवतरति प्राप्ते सति शत्रुबले रिपुसन्ये गजिनः गजारूढा भटाः क्वचिदपि कस्मिश्चिदलक्षिते प्रदेशे जर्जरसारिमध्यलुठिताः जर्जराणां भिन्नानां सारीणां गजपृष्ठस्थाशिबिकानां मध्येऽन्त: लुठिताः पतिताः, रथिनः रथारूढा भटाः क्वचिदपि कस्मिश्चित्प्रदेशे जर्जरवंशपत्रपतिताः जर्जरवंशेभ्यः भग्नयुगाधारकाष्ठेभ्यः पत्रेभ्यो वाहनेभ्यः रथेभ्यः पतिताः, सादिनः अश्ववाराः कापि क्वचित्प्रदेशे हततुरङ्गमबलपिहिताः हतेन मृतेन तुरङ्गमबलेन अश्वसैन्येन पिहिताः छन्ना अभवन् आसन् । त्वयि युद्धभूमिगते प्रायो रिपवः सर्वे नष्टा एवये केचन गजादिसेनायां जीविता आसन् ते तत्रतत्रोकेषु स्थलेषु निलीय स्थिता इति भावः । ज[s] [1] [1] सा[s]रि[1]म[s]ध्य[1]लु[1]ठि[1] ताः[s] क्व[1]चि[1]द[1]पि[1]ग[1]जि[1]नः[5] इति दशमियत्या लक्षणसमन्वयः। अस्य नामान्तरमाह- वंशदलमित्यन्ये इति ।। अ० २, सू०२८८.१ ॥ सौ ज्मौ जो गावतिशायिनी ॥२८॥ ससजमजगगाः । रिति वर्तते । यथा- माघस्य इति धौतपुरन्ध्रिमत्सरान सरसि मजनेन, षियमाप्तवतोऽतिशायिनीमपमलाङ्गमासः । अवलोक्य तदेति यादवानपरवारिराशेः, शिशिरेतररोचिषाप्यपां ततिषु मक्तुमीषे । पादवीत्यन्ये ॥ २८६.१॥ - चतुर्थ प्रकारमाह- सौज्मौ जो गावति शायिनीति । विवृणोति ससजभजगगाः। रिति वर्तते इति । तथा च सगणद्वयं जगण-भगण-जगणाः गुरुद्वयं च [sis.s.si.s.si.ss.] इतीदृशैरक्षरः कृताः पादा यस्य, दशभिश्च यतियंत्र तत् अतिशायिनी नामकमत्यष्टि जातिच्छन्द इत्यर्थः । उदाहरति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy