________________
२४४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २८७ ] रिवेश्माग्रतो, निरीक्ष्य चमरी वृषं सपदि मन्मथव्याकुला । परिम्पृशति जिह्वया ककुदकेन कण्डूयते, निमीलितविलोचना किल चुलुक्यपृथ्वीपते विलम्बितगतिरिति भरतः ॥ २८७.१॥
द्वितीयं प्रकारमाह- जसजस्थल्गाः पृथ्वी जैरिति । विवृणोति जसजसयलगाः । जैरित्यष्टभिर्यतिरिति । जगण-सगण-जगण-सगण-यगणाः लघुगुरू च [is.IIS.IS.IIS.ISS.IS.] इतीदृशंरक्षरः कृताः पादायस्य, अष्टभिश्च यतिर्यत्र तत् पृथ्वीनामक मत्यष्टि जातिच्छन्द इत्यर्थः उदाहरति- यथा- त्वदीयरिपुभूभुजामिति । हे चुलुक्यपृथ्वीपते ! त्वदीयरिपुभूभुजां तव शत्रुभूतानां राज्ञां पुरि नगरे पुरारिवेश्माग्रतः शिवमन्दिर मुखे वृषं अश्ममय शिववाहनभूतं वृषभं निरीक्ष्य दृष्ट्वा सपदि तत्कालमेव मन्मथव्याकुला कामपीड़िता चमरी वनगौः जिह्वया रसनया परिस्पृशति लेटि निमीलितविलोचना स्पर्शसुखेन मुद्रितनयना सती ककुदकेन स्कन्धोपरिस्थ मांसपिण्डेन कण्डूयते गात्रविघर्षणं करोति किलेत्यतिटे । अयमाशयः त्वयोरिपुषु निहतेषु तदावासनगरं शून्यमिति तत्र वनपशव एव यतस्ततः संचरन्तीति वनगौरपि तत्र संचरन्ती पुगण पुरारिमन्दिराग्रतस्तदीय वाहनवृषमूत्तिं दृष्ट्वा वास्तविक वृषबुद्धया स्वकामचेष्टाभिस्तमनुरजयितुं यतत इति । त्व[1]दी[s]य[1] रि[1][I] भू[s] भु[I] [s], पु[1]रि[1] [1] रा[s]रि[1]वे[s]श्मा[s] ग्र[1] तः[5] अष्टमेऽक्षरे यत्या, च लक्षण समन्वयः । अस्यनामान्तरमाह विलम्बित गतिरिति भरत इति, तथाहि "यदा द्विरुदिती हि पादमभिसंश्रितो सौ भिको तथैव च पुनस्तयोमिधनमाश्रितो यो लगौ । तदष्टिरति पूर्विका यतिरपि स्वभावाद्यथा, विलम्बितगतिस्तदा निगदिता द्विज नामतः । [ भ. ना. शा. १५-११४ ] । अ० २, सू०-२८७१ ।। . भ्रौ न्भौ न्लो गो वंशपत्रपतितं औः ॥२८॥
भरननलगाः । रिति दशमियतिः । यथा- जर्जरसारिमध्यलुटिताः कचिदपि गजिनो, भङ्गुरवंशपत्रपतिताः कचिदपि रथिनः । कापि च सादिनो हततुरंगमबलपिहिताः, शत्रुबलेऽभवंस्त्वयि रणाङ्गणमवतरति । वंशवलमित्यन्ये ॥ २८८.१ ॥