SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २८६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २४३ अत्यष्टौ यम्नस्भल्गाः शिखरिणी चैः ॥२८६|| यमनसभलगाः । चैरिति षड्भिर्यतिः। यथा- हरन् सर्वाम्भोजश्रियमविरतं सिन्धुपतिना, कृतार्थस्तन्वानो निशितमसि विद्योतमसमम् । सुधांशुस्तद्वंशे त्वमिव जयसिंहक्षितिपते, कलापूर्णः पश्योदयशिखरिणीहाभ्यु दयते ॥ २८६.१॥ अथात्यष्टिजाति सप्तदशाक्षरपादां वर्णयितुमुपक्रमते-अत्यष्टौ यम्नस्भल्गाः शिखरिणी चैरिति । विवृणोति-यमनसभलगाः। चैरिति षड्भिर्यतिरिति । यगण-मगण-नगण-सगण-भगणाः लघुगुरू च [iss.sss.1.15..15.] इतीदृशैरक्षरः कृताः पादा यस्य षड्भिश्च यतिर्यत्र तत् शिखरिणी नामकमत्यष्टि जातिच्छन्द इत्यर्थः । उदाहरति- यथा-हरन् सर्वाम्भोजेति । हे जयसिंह क्षितिपते ! जयसिंह-नाम्नाख्यातः क्षितिपतिः पृथ्वीशः तस्य सम्बोधनम्, अविरतं सततम् सर्वाम्भोजश्रियम् सर्वेषामम्भोजानां कमलानां श्रियम् शोभाम् [ राजपक्षे ] सर्वां सम्पूर्णा भोजश्रियं धाराधिपतेः भोजस्य सप्ताङ्गराज्यलक्ष्मी [ सम्प्रति नहिर वर्माधीनाम् ] हरन् नाशयन् पक्षे- आत्माधीनां कुर्वन् सिन्धुपतिना समुद्रेण कृतार्थः कृतप्रयोजनः, पक्षे सिन्धुपतिना सिन्धुदेशराजेन कृतार्थः सत्कृतः निशि रात्री तमसि अन्धकारे सति असमम् निरुपमं विद्योतम् प्रकाशं तन्वानः विस्तारयन्- पक्षे निशितम् तीक्ष्णम् असभम् असिविद्योतम् खङ्गप्रभां तन्वानः, सुधांशुः चन्द्रः, तद्वंशे तस्य चन्द्रस्य कुले त्वमिव तत्सदृशः कलापूर्णः सकलकलाभि: सम्पन्नः चन्द्रः इह उदयशिखरिणि उदयाचले अभ्युदयते अभिमुखमुदयं गच्छति इति पश्य । गुणस्त्वंच चन्द्रश्च पूर्वोक्तरीत्या समानौ, यथा च चन्द्रपरम्परायां पूर्णकलोऽयं चन्द्र उदेति, तथैव चन्द्रवंशीयराजानां परम्परायाम् त्वमपि कलापूर्णः समुदयं गच्छसीति भावः। ह[1]रन्[s]स[5];[s]म्भो[]ज[s], श्रि[1] य[1]म[1] वि[i][i][5]सि[5]धु[1]प[1]ति[1]ना[s] इति षड्भिर्यत्या सह लक्षणसमन्वयः ॥ अ० २, सू०-२८६.१॥ ज्सजस्यल्गाः पृथ्वी जैः ॥ २८७ ॥ जसजसयलगाः। रित्यष्टभिर्यतिः। यथा- स्ववीयरिपुभूभुजां पुरि पुरा
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy