________________
२४२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २८५.] मधुरोगारमहर्गीतकर्, अक्षिप्तोऽस्यारोहणमृगः स्वच्छन्दचारी यतः । मन्वं मन्दं दक्षिणमरुद्वात्येष तेनाधुना, सद्यः पुष्यत्कोमललतालास्यकशिक्षागुरुः ॥ २८५.१॥
- त्रयोविंशं प्रकारमाह-म्तो स्तौ त्गो कोमललता धडैरिति । विवृणोति- मतसततगाः। घरिति चतुभिः पञ्चभिर्यतिरिति । मगणनगण-सगणास्तगणद्वयं गुरुश्च [sss..si ssi ssi.s] इतीदृशैरक्षरः कृताः पादा यस्य तत्, चतुभिः पञ्चभिश्च यतिर्यत्र तत् कोमललता नामकमष्टिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- मत्तालीनामिति । अत्र चतुर्थचरणे पुष्यत्कोमल० इत्यस्य स्थाने पुष्प्यत्कोमलेति पाठोऽर्थ दृष्ट्या साधीयान् प्रतिभाति स एव स्थिीरीकृत्य व्याख्यायते । यतः यस्माद्धेतोः अस्य वायो: आरोहणमृगः वाहन हरिणः मत्सालीनां उन्मत्तमधुकराणां मुहुः वारं वारं स्निग्धमधुरोद्गारः कोमलमिष्टप्रवाहिभिः गीतकैः गानः आक्षिप्तः आकृष्टः सन्- स्वच्छन्दचारी स्वरितां गतः तेन हेतुना सद्यः पुष्प्यत्कोमललतालास्यैकदीक्षागुरुः सद्यः तत्कालमेव पुष्प्यन्तीनां पुष्पोत्पत्तिमतीनां कोमललतानां मृदुवल्लीनां लास्यस्य नृत्यस्य एक मुख्यः दीक्षा गुरुः शिक्षकः एष सद्योऽनुभूयमानः दक्षिणमरुत् दाक्षिणात्यवायुः अधुना सम्प्रति मन्दं मन्दं शनैः शनै: वाति गच्छति । वसन्ते वायुमन्दगतिर्भवतीति प्रसिद्धम् । तत्र हेतुरुत्प्रेक्ष्यते- यतो वायो हिनभूतो मृगः मधुनामत्तानां भ्रमराणां गीतैराकृष्टः सन् स्वेच्छयैव गच्छति न वायुप्रेरणामनुवर्ततेऽत एवंष मन्दं मन्दं वातीति । म[s]त्ता[s]ली[s]नां[s], स्नि[5] ग्ध[]म[1]धु[1] रो[s]. द्वा[s] [s] [][s]र्गी[s]त[1] कैः[s] इत्येवं चतुभिः पञ्चभिश्च यत्या सह लक्षण समन्वयः । २८५.१॥ इत्थं शोडशाक्षर पादाभा अष्टि जातेर्यथा प्रयोगं त्रयास्त्रिंशभेदा उक्ताः । प्रस्तारगत्या तु अस्या ६५५३६ संख्यका भेदा भवन्ति । तदुलं भरतेन-"पञ्चषष्टिसहस्ताणि सहस्ताधं तु संख्यया । षड्विंशच्चव वृत्तानि तथा ष्ट्यांगदितानि तु ॥" [ भ० ना० शा० १४.६२ ] १६-२२ ॥ इत्यष्टिः ॥