________________
.२४०
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ० २, सू० २८३.]
अन्धकारेण घोरे भयङ्करे संगरप्रदोषे संग्रामसन्ध्यासमये स्फूर्जति विलसति सति, हे नृपते ! वैरिमहीभुजां शभु भूतानां नृपाणां समन्तात् सर्वतः सुरवरयुवती सुराणां सम्बन्धिन्यः सजातीया वा वरभुवत्यः सुरवरभुवत्यः ताभिः संगमहेतुः संमेलन कारणं एकदूती प्रधानदूतिका भवदसिलतिका, त्वदीयकृपाणवल्ली विलसति शोभते । अयमाशयः, भवदसिलतया संग्रामे हता भवद्रिवपः सुरयुवतीभिः सह संगच्छन्तीति वस्तुतत्त्वम् । तत् च संध्यारूपकेणअसिलतायाः दूतीत्व कल्पनया शोभनतां नीतम् । प्रदोषसमये दूत्यः नायकान् नायिकाभि: सह संगमयन्तीति प्रसिद्धम् । इहापि तुरगखुरजोमिरन्धकारे जाते संग्रामः सन्ध्यासमयतां प्रतिपद्यते, तत्रच रिपवः [मृताः] सुर भुवतीभिः सह सङ्गच्छन्ते । तत्र संगमहेतु रसिलतिका दूतीवेत्याकूतम् । स्फू[S]र्जं [ 1 ]ति [ 1 ] [S] ग [1] [s] प्र [1] दो[s] षे[s] तु[1] र[1] ग[1] ख[1] र[1] खु[1] [5] [ संयोगे गुरुत्वात् ] इति लक्षणसमन्वयः ॥ अ० २, सू० - २८२ ॥
नीगा ललना || २८३॥
रगणो नगणचतुष्टयं गुरुश्च । यथा- दिक्षु चक्षुरनिलहत कुवलयतरलं, प्रक्षिपत्यतनुमृगपतिनिनदचकिता । सिद्धराजसुत भजति मृगयुवतितुलां सांप्रतं वनभुवि तव रिपुनृपललना ।। २८३.१ ।।
एकविंशं प्रकार माह- नगा ललनेति । विवृणोति रगणो नगणचतुष्टयं गुरुश्चेति । 'ऽ।ऽ।।।।।।।।।।।।.5. ' इतीदृशैरक्षरैः कृताः पादा यस्य तत् ललनानामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- दिक्षु चक्षुरिति । हे सिद्धराजसुत ! सिद्धराजपुत्र ! साम्प्रतं त्वयारिपुषु हनेषु विद्राव्य यतस्ततः प्रहितेषु वा रिपुनृपललना शभुराजवनिता अनिलहतकुवलयतरलं वायुकम्पित नीलकमलवच्चपलं चक्षुः नेत्रं दिक्षु सर्वासु आशासु प्रक्षिपति पातयति, वनभुविअतनुमृगपतिनिनदचकिका अतनुः महान् - यो मृगपतिः सिंहः तस्य निनदेन गर्जितेन चकिता भीता सती मृगयुवतितुलां हरिणतरुणीसादृश्यं भजति प्राप्नोति । पतिविहीना भवद्रिपुकामिनी नगरात्पलाप्य वनंगता तत्र च स्वभावभीताऽपि - सिंहनादं श्रुत्वाऽतितरां भीतासती यतस्ततातरलं नेत्रं