________________
[अ० २, सू० २८२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २३६
ऊनविशं प्रकारमाह- भ्रौ न्मौ भगौ शैलशिखेति । विवृणोति- भरनभमगा इति । भगण-रगण-नगणाः भगणद्वयं गुरुश्च 'sI.sas..SII.SIL.5.' इतीहशेरक्षरः कृताः पादा यस्य तत् शलशिखानामकमष्टिजातिच्छन्द इत्यर्थः । यथा- शीतरुजेति शीतरुजा जाड्यक्लेशेन विधूतचिबुकैः कम्पितहनुभिः कृतदन्तरवः विहित दशनकटाकटाशब्दः, गाढतरप्रयुक्तगजदन्त कराभिनयः- गाढतरमत्यन्तं प्रयुक्तः कृतः गजदन्तयोः- करिदशनयोः कराभ्याम् सूर्याभिमुखं प्रसारिताभ्याम् अभिनयः अनुकरणं [प्रायो. वा करीबन्धनाम्ना प्रसिद्धः] येन तादृशः तव वैरिजनः शत्रुवर्गः, तुषारऋतौ- हेमन्ते शैलशिखाप्रदेशम् पर्वताग्रभागम् अधिरा- आरुह्य भास्करोदयपथं पश्यति सूर्योदयमार्गमवलोकयति । त्वयापहृतसर्वस्वः भयात्वलाप्य गिरिगृहासु लीनः, तत्र शीतत्राणयोग्यवस्त्राभावात् कथं चिदपनीतरात्रिः सूर्योदयात् प्रागेव गिरिशिखरमधिरुह्य स्थित स्तवरिपुः आतपतापाय सूर्योदयं प्रतीक्षमाण स्तिष्ठतीति भावः । शी[s]त[1][i] जा[s]वि[1]धू[5]त[1]चि[1]बु[1] कैः[5] कृ[1] त[1] द[s] न्त[1] र[1]व:[s] इति लक्षणसमन्वयः । अत्र प्रथमपादे 'विधुत' इति ह्रस्वो धू धातु: पठ्यते परं तथा सति रगणस्वरूप हानिरिति छन्दो भङ्गः स्यादिति दीर्घपाठः कल्पनीयः ॥ अ० २, सू०-२८१ ॥
__भ्रौ नौ न्गौ वरयुवतिः ॥२८२॥ भरयननगाः । यथा- स्फूर्जति संगरप्रदोषे तुरगखरखुर-, क्षुण्णरजोन्धकारघोरे विलसति नृपते । वैरिमहीभुजां समन्तात्सुरवरयुवती., संगमहेतुरेकदूती भवदसिलतिका ।। २८२.१॥
विशंप्रकारमाह- भ्रौ नौ न्गौ वरयुवतिरिति । विवृणोति-भरयननगा इति । भगण-रगण-यगणा नगणद्वयं गुरुश्च 'su.sis.Iss.....' इतीदृशैरक्षरः कृताः पादा यस्य तत् वरयुवतिनामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- स्फूर्जति संगरेति । तुरगखरखुरक्षुण्णरजोडन्धकारपोरे तुरगानामश्वानां खरस्तीवः खुरः पाद क्षुण्णानां मर्दितानां रजसाम् धूलीनाम्