________________
२३०
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २८०.] करणमवश्यनाश्चर्य प्रदमिति भावः । का[s]न्ति [1]रि[s][i]को [s]मु[1] दी[s]स[1]हो[s]द[]] [[s]व[1]चो[s]वि[1]ला[s]सः[5] इति लक्षणसमन्वयः । अ० २, सू०-२७६ ॥
म्रस्ताः सुरतललिता ॥२८०॥ मनसतरगाः। यथा- संप्राप्ते मधुसमयसाम्राज्ये पिकीसमूहाः, शंसन्ति प्रतिदिशमिदं मन्ये नितम्बिनीनाम् । मानित्वं त्यजत सुभगंमन्यत्वमस्तु दूरे, कन्दर्पः सुरतललितोपाध्यायकं प्रपेदे ॥ २८०.१ ॥
अष्टादशं प्रकारमाह- म्रस्तर्गाः सुरतललितेति । विवृणोति- मनसतरगा इति मगण-नगण-सगण-तगण-रगणा गुरुश्च 'sss..SI.SI.sis.s.' इतीहशैरक्षरः कृता पादा यस्य तत् सुरतललितानामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-सम्प्राप्ते मधुसमयेति । मधुसमयसाम्राज्येवसन्तर्तुशासनाधिकारे सम्प्राप्ते- प्रारब्धे पिकीसमूहाः- कोकिलापङ्क्तयः प्रतिदिशं- सर्वासु दिक्षु नितम्बिनीनाम्- स्त्रीणां कृते इदं वक्ष्यमाणं वस्तु शंसन्ति- कथयन्ति [ इत्यहं ] मन्ये तर्कयामि । किं तदित्याह-मानित्वं मानवतीत्वं त्यजत- परिहरत सुभगंमन्यत्वं- आत्मानं सुभगं मन्यते इति सः, तस्य भावः तत्- दूरे अस्तु तदपि मनसोऽपसारणीयम् कुत इत्याहकन्दर्पः- कामः सुरतललितोपाध्यायकं- सुरतललितस्य कामक्रीडा विलसितस्य औपाध्यायकं उपाध्यायोऽध्यापयिता तस्य भावं प्रपेदे प्राप्तः । कन्दर्पो यत्र स्वयमेव सुरतललितमुपदिशति तत्र का वः शक्तिस्तत्प्रतिकूला चरण इति पश्चादव श्यं परिहर्तव्ये प्रणयमाने सौभाग्याभिमाने च वरमादावेव तत्परित्याग इति भावः । सं[s]प्रा[s]प्ते[s]म[1][1]स[1]म[1]य[1]सा[5]म्रा[5] ज्ये[s] य[s]पि[1]की[5]स[I] मू[]हाः[5] इति लक्षणसमन्वयः ॥ अ० २, सू०-२८०॥
भ्रो न्भौ भगौ शैलशिखा ॥२८१॥ भरनममगाः । यथा- शीतरुजा विधुतचिबुकंः कृतदन्तरवो, गाढतरप्रयुक्तगजदन्तकराभिनयः । शैलशिखाप्रदेशमधिरुह्य तुषारऋती, पश्यति भास्करोत्यपथंतव वै रिजिनः ॥ २८१.१ ॥