________________
[अ० २, सू० २७९.] .. सवृत्तिच्छन्दोऽनुशासनप्रद्योते
:२३७ II.ISI.ISI.SIS.Is1.5.' इतीहशेरक्षरः कृताः पादा यस्य तत् पञ्चचामरं नामाष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- त्वदीयपादपङ्कज इतिः । हे जिनेन्द्र ! त्वदीयपादपङ्कजे- भवदीय चरणकमले उज्ज्वलाम्-सुप्रकाशाम् भक्ति- श्रद्धां निधाय- संस्थाप्य मनुष्यकीटका:- क्षुद्रमानवाः वयं किम् अद्भुतं- आश्चर्यं विदध्महे- कुर्महे, न किमप्यद्भुतमाचराम इति भावः, कुत इत्याह- यदीयजन्मनः- यत्प्राकट्यस्य महोत्सवं- महान्तमुत्सवं सप्तविंशतिश्च पञ्च च द्वात्रिंशत्संख्याकाः अमराधिपाः- देवेन्द्राः तथा अनिर्वचनीयेन प्रकारेण प्रचक्रिरे विहितवन्तः। यदीयाराधनाममराधियाअपि कृतवन्तस्तदीयभक्तिप्रकटनं क्षुद्रमानवानां कृते साधारण एव धर्म न किमप्यत्राश्चर्यमिति भावः । त्व[1]दी[s]य[1]पा[s]द[5]पं[1]क[1]जे[s] नि[1]धा[s]य[1] भ[5]क्ति[I] मु[s]ज्जव[1]लां[1] इति लक्षण समन्वयः ॥अ०.२, सू०-२७८ ॥
- रजर्जर्गाश्चित्रम् ॥२७९|| रजरजरगाः । यथा- कान्तिरिन्दुकौमुदीसहोदरा वचोविलासः, सर्वदा सुधोज्ज्वलो यशश्च दुग्धसिन्धुबन्धुः । क्षुण्णशङ्खसोदरा गुणास्तवामलं चरित्रं, चित्रमेतदेभिरीश मे मनस्तथापि रक्तम् ॥ २७६.१॥ .. ...
सप्तदशं प्रभेदमाह- ईशित्रभू- इति । विवृणोति- रंजरजरगा इति रगण जगण-रगण-जगण-रगणा-गुरुश्च 'sis.sI.SIS.ISI.ISI.sis.s.' इतीदृशरक्षरैः कृताः पादा यस्य तत् चित्रं नामाष्टिजातिच्छन्द इत्यर्थः । उदाहरतियथा- कान्तिरिन्दु कौमुदी सहोदरेति । हे ईश तव- भवतः कान्ति:- द्युतिः इन्दुकौमुदीसहोदरा- चन्द्रज्योत्सना सदृशी, वचोविलासः वाग्विभ्रमः सर्वदा- सदा सुधोज्वल:- सुधावत्- चूर्णवत् शुक्ल: यशः कीर्तिश्च दुग्धसिन्धुबन्धु:-क्षीरसागर समानः गुणाः दयादाक्षिण्यादयो धर्माः क्षुण्णशङ्खसोदराः क्षुण्णाः कृतक्षोदः शङ्खः कम्बुः तस्य सोदराः सदृशाः चरित्रम्- व्यवहारः अमलं- निर्मलम् तथापि एवं सर्वेषां श्वेतत्वेऽपि मे- तव भक्तस्य मनः चेतः एमिः तव कान्त्यादिभिरेव रक्तम्- रक्तवर्णम्अथ च अनुरक्तमिति चित्रम्- आश्चर्यम् । स्वयं श्वेतैस्तमममनसो, रक्ती