________________
२३६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० २७७ - २७८.]
नयति । अत्र शरदा सह बाणिन्याः साधारणविशेषणः सादृश्यं व्यक्तम् । अ[1]वि[1]र[। ]ल[1]पु[1]ष्प [1]बा[S]ण[1]ल [1]लि[1]ता[S]नि [1] [5] [1] [s]न्ती [s] इति लक्षणसङ्गतिः ॥ अ० २, सू० - २७६ ॥ नजिर्गा वा ॥ २७७৷৷
नगणो जत्रयं रगणो गुरुश्च यदा तदापि वाणिनी । यथा- कुरु करुणां वितर प्रतिवाचमत्र कां वा, हृदि दयितां निदधासि निमीलिताक्षियुग्मम् । अयमपि ते ननु दासजनोऽनुकम्प्य एव, जयति स वीरजिनो गदितो द्युवाणिनोभिः ।। २७७.१ ।।
पञ्चदशं प्रभेदमाह - न जिर्गा वेति । विवृणोति - नगणोजत्रयं रगणोगुरुश्च यदा तदापि वाणिनीति । पूर्ववणिताया वाणिन्या एव प्रकारान्तरेणापि विन्यासः, स यथा नगण: जगणत्रयं रगणः गुरुश्च '111. ISI.ISI. 1st.sis. s.' इतीदृशं रक्षरैः । उदाहरति- यथा- कुरुकरुणामिति । करुणां अस्माकमुपरि दयां कुरु विधेहि, अत्र प्रतिवाचं- प्रत्युत्तरं वितर- देहि, कां वा दयितां प्रियां हृदि स्वान्तः करणे निमीलिताक्षियुग्मम्- निमिलितं पिहितं अक्षियुग्मम् नेत्रद्वयं यत्र तद्यथा स्यात्तथा निद्धासि धारयसि । अयमपि अस्मद्रूपोपि दासजन:- भक्तलोक: ते- तव अनुकम्प्यः- अनुग्राह्य एव [इति] द्यु वाणिनीभिः संगमदेवेन मायया निर्मिताभिः स्वर्लोकीय विदग्धमत्तकामिनीभिः गदितः- उक्तः स प्रसिद्धः वीरजिनः- महावीरेति प्रसिद्धोऽर्हन् जयति सर्वोत्कर्षेण वर्तते । कु[ ]रु[1]क[+]रु[1]णां[s]वि [ 1 ] त[1] [5] [5]ति [ 1 ] वा [s]च[0]म[5]त्र [] कां [s] वा [s] इति लक्षणसङ्गतिः ॥ अ० २, सू० - २७७ ।।
+
ज्रज्रज्गाः पञ्चचामरम् ॥२७८॥
जरजरजगाः । यथा- त्वदीयपादपङ्कजे निधाय भक्तिमुज्ज्वलां, मनुष्यकोटका वयं विदध्महे किमद्भुतम् । यदीयजन्मनो महोत्सवं तथा प्रचक्रिरे, जिनेन्द्र सप्तविंशतिश्च पञ्च चामराधिपाः ।। २७८.१ ॥
लक्षितक्रमेण षोडशं प्रकारमाह- ज्रज्रज्गाः पञ्चचामरमिति । विवृणोति- जरजरजगाः इति । जगण - रगण - जगण रगण जगणा: गुरुश्च