________________
२३५
[अ० २, सू० २७६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते सततभीता [ अतएव ] सध्रीचीभिः- सहगमनशीलाभिः सखीमिः धृतकरतला- अवलम्बितहस्ता कान्ते कृतरतिः प्रियविषये कृतप्रीतिः मदनललिता कामावस्थया- मनोहराङ्गना मन्दं मन्दं प्रियगहं याति शनैः शनैः वल्लभागारं प्रविशति । गा[5]ढा[5] का[s]न्ता[s], कु[1]च[1]यु[1]ग[1] भ[1][s], णा[s][5]च [1] वि[1] [2]हे[1] इति चतुभिः षड्मिश्च विच्छिद्यपठनात् श्रव्यत्वम् । यद्यपि प्रथमे पादे षष्ठेऽक्षरे या द्वितीया यतिः 'रे' इत्यत्र प्राप्ता सा च पदमध्ये पततीति नोचिता- पदमध्ये यतेः क्वाचित्कत्वेन स्वीकारेऽपि पूर्वापरभागयोरेकाक्षरत्वे तद्वर्जनात् । तथाहि- प्रोक्तम् "क्वचित्तु पदमध्येऽपि गकारादौ यति भवेत् । यदि पूर्वापरी भागौ न स्यातामेकवर्णकौ ॥” इति तथापि पूर्वभागस्य वर्णद्वयात्मकत्वसत्वात्कथंचित्सन्तोष्टव्यम् ॥ अ० २, सू०-२७५ ॥
न्जम्जर्गा वाणिनी ॥२७६|| नजभजरगाः । यथा- अविरलपुष्पबाणललितानि दर्शयन्ती, परिमलहारितामरसवक्त्रमुद्वहन्ती। मदकलराजहंसगमनानि भावयन्ती, शरदिह मानसं हरति हन्त बाणिनीव ॥ २७६.१ ॥
चतुर्दशं प्रभेदमाह- जम्जर्गा वाणिनीति । विवृणोति नजमजरगा इति । नगण-जगण-भगण-जगण-रगणाः गुरुश्च ॥.s.sI.IsI.SIS.ऽ.' इतीदृशैरक्षरः कृताः पादा यस्य तत् वाणिनीनामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरतियथा- अविरलेति। अविरलपुष्प बाणललितानि अविरलानि धनानि पुष्पाणि येषु ते च बाणा वृक्ष विशेषाः तेषां ललितानि विलासानि, पक्षे अविरलानि- निबिडानि पुष्पबाणस्य कामस्य ललितानि विलासानि दर्शयन्ती प्रकटयन्ती, परिमलहारितामरसवक्त्रम् परिमलेन सौरमेण हारि मनोहरं तामरसं कमलमेव वक्त्रम्- मुखम्, पक्षे तादृशं तामरसमिववक्त्रम् उद्वहन्ती'धारयन्ती मदकलराजहंसगमनानि- मदेन समयप्राप्तेन विकार विशेषेण कला अव्यक्तमधुरभाषिणो ये राजहंसा मरालाः तेषां गमनानि गतीः, पक्षे तादृशराजहंसानाम् गमनानीव गमनानि भावयन्ती प्रकट्यन्ती शरद् ऋतुविशेषः बाणिनी विदग्धमत्तनायिका इव मानसं चेतः हरति स्ववशं