SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २७५.] लक्षितक्रमेण [ न तु प्रस्तारक्रमेण ] द्वादशं प्रकारमाह- भ्रौ त्रौ न्गौ महिषीर्जरिति । विवृणोति - भरनररगाः । जैरिति दशभिर्यतिरिति । भगण-रगण-नगण-रगण - नगणा गुरुश्च ' 51.5 5.111.5 5.111.5. ' इतीदर्शर्वर्णैः कृताः पादा यस्य, दशमिश्च वर्णैयतिर्यत्र तत् महिषीनामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- सिद्धनरेन्द्रेति । हे सिद्धनरेन्द्रनन्दन ! सिद्धराज सुत ! सम्प्रति तवाक्रमणानन्तरं भवद्विपक्षनगरे - त्वदीयशत्रुपुरे अरण्यमहिषी - वनजामहिषजातिस्त्री सौधमित्ति लिखिताः प्रासादकुड्योत्कीर्णाः तुरङ्गमचमूः - अश्वसेना: वीक्ष्य - अवलोक्य नितान्त कोप कुटिलेक्षणा- अत्यन्तक्रोधवक्रीकृतलोचना सती प्रतिमुहुः- प्रत्येकं वारं वारं शृङ्गविघट्टनैः - विषाणघर्षणः विघटयति - त्रोटयति । भवदाक्रमणेन रिपुषु पुरं त्यक्त्वा पलायितेषु तत्रारण्यजन्तूनां निवासात् - प्रासादेषु सञ्चारेण तत्रोल्लिखिता अश्वसेनाः समवलोक्य जातिसिद्धिवैरेण महिष्यस्ताः शृङ्ग. विघटयन्तीति भाव: । सि [S]द्ध[1]न [\]\[s]न्द्र [1]नं[s]द[1]न [1]भ[1] [5] द्वि[1] [5]क्ष [1] [] ग [1][s] इति लक्षणसमन्वयः । प्रतिपादं च दशमाक्षरे विरम्य पाठे सुश्रवत्वमिति ॥ अ० २, सू० - २७४ ॥ २३४ म्भौ न्मौ न्गौ मदनललिता घचैः ॥२७५|| ममनमनगाः । घर्चरिति चतुभिः षड्भिश्च यतिः । यथा- गाढाकान्ता कुचयुगभरेणार्ता च विरहे, नित्योद्विग्नातिघनजघनप्राग्भारघरणे । सध्रीचीभिघृतकरतला कान्ते कृतरतिर् मन्दं मन्दं मदनललिता याति प्रियगृहम् ।। २७५.१ ।। त्रयोदशं प्रकारमाह- म्भौ न्मौ न्गौ मदनललिता घचैरिति । विवृणोतिमभनमनगाः । धचैरिति चतुभिः षड्मिश्च यतिरिति । मगण-भगणनगण-मगण-नगणा गुरुश्च 'ऽऽऽऽ।। ।।। ऽऽऽ ।।1.5. ' इतीदृशैरक्षरैः कृताः पादा यस्य चतुभिः षड्भिश्च यतियंत्र तत् मदनललिता नामकमष्टि जातिच्छन्द इत्यर्थः । उदाहरति- यथा - गाढाक्रान्तेति । कुचयुगभरेण - स्तनद्वन्द्वभारेण गाढाक्रान्ता - अत्यदिता, विरहे प्रिय वियोगे च आर्त्ता- पिडिता, अतिघन जघन प्राग्भारधरणे - अतिनिबड नितम्बभारोद्वहने नित्योद्विग्ना
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy