SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २७४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २३३ एकादशं प्रभेदमाह - य्मन्सर्गाः जयानन्दं चैरिति । विवृणोति- यमन सरगाः । चैरिति षड्मिर्यतिरिति । यगण-मगण-नगण-सगण-रगणाः गुरुश्च 'İऽऽ.ऽऽऽ.।।।.।।ऽ.ऽ।ऽ.s.' इतीदृशैरक्षरैः कृताः पादा यस्य षडमिश्च यतियंत्र तत् जयानन्दं नामाष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा - नमच्छक्रेति । नमच्छक्रश्रेणीमणिमुकुट कोटी विटङ्क :- नमतां प्रणमतां शक्राणा मिन्द्राणां श्रेण्याः पङ्ले: मणिनिर्मितानां मुकुटानां कोट्याः शतलक्षाणां ये विटङ्का अग्रभागाः तैः निघृष्टाङ्घ्र - घाषित चरण ! प्रबलजडताचण्डभानो प्रबलाया जडताया जाड्यस्य मौर्यस्य शैत्यस्य च ( कृत ) चण्डभानो सूर्य ! हे देव ! सदसि सभायां सुधाधारासारै:- अमृतप्रवाह वर्षाभिः इव वाचां - वाणीनां प्रपञ्चः विस्तारैः सपदि - तत्कालमेव जगतां - सर्वेषां लोकानाम् जयानन्दस्यन्दं - जयानन्दयोः विजयप्रीत्योः स्यन्दं द्रवम् आदघानः, 'असि' इति शेषः । अथवा आनन्द स्पन्दं आदधानः ( त्वं ) जय सर्वोत्कर्षेण वर्तस्वेति पदविच्छेदेन व्याख्यायां न क्रियापदानिर्देश रूपात्रुटि: । न [ 1 ] म [S]च्छ[s]क्र[s]श्रे[s]णी [s], म [ 1 ]णि [ 1 ] मु[1]कु[1] [ 1 ] को [S] टी [s]वि [1] [5] : इति लक्षण समन्वयः । अस्य नामान्तरमाहप्रवरललितमित्येके इति । तथा च मंदार मकरन्दे 'य- मौ- नः स्त्रीगरच प्रवरललितं नाम वृत्तम्' इति । भरतनाट्यशास्त्रेऽप्यस्य 'ललित प्रवरं' प्रवरललितमिति द्विधानाम निर्दिष्टं पाठ भेदेन । तथाहि - आद्यात्पराराणि वे पञ्च द्वादशं सत्रयोदशम् । अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हितत् ॥ इति १५६८ ॥ यदा टमी पादस्थो भवत इह चेत् न्सो तथा र्गों, तथा षड्मिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् । तदप्यष्टी नित्यं समनुगतमेवोक्तमन्यैः, प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु । इति [ १५/६६ ] ॥ अ० २, सू०-२७३ ।। भौ नौ न्गो महिषी त्रैः ॥ २७४ ॥ भरनरनगाः । अंरिति दशभियंतिः । यथा- सिद्धनरेन्द्रनन्दन भवद्विपक्षनगरे, संप्रति सौ भित्तिलिखितास्तुरंगमचमूः । वीक्ष्प नितान्तकोपकुटिलेक्षणा प्रति मुहुः, शूङ्गविघट्टनविघटयत्यरण्यमहिषी ।। २७४.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy