________________
२३२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २७२-२७३.] संस्करणे तु 'अग्रवृषभगजविलसितम् इभविलसितम्- इति च पाठ समुपलभ्यते । कचिन्मत्तगजविलसितमित्यपि पाठः इति पाद टिप्पण्यां निर्दिष्ठम् । तथा च तत्रापि यथारुच्येव पाठः स्वीकृतः ।। अ० २, सू०-२७१ ॥
निजस्गा ललितपदं ङः ॥२७२।। निरिति नगणत्रयं जसगाश्च । रिति पञ्चभिर्यतिः । यथा- चुलुककुलजलनिषिशशाङ्क तव दीनं, रिपुनिवहमतितरलकातरमुपेक्ष्य । त्वदसिरुचितमसि वितते युषि भवन्तं, ललितपदमभिसरति वीर जयलक्ष्मीः ॥२७२.१।।
दशमंप्रकारमाह-निजस्गा ललितपदं रिति । विवृणोति-निरिति नगणत्रयं जसगाश्च । जैरिति पञ्चभिर्यतिरिति । नगणत्रयात्परतो जगण सगणो गुरुश्च 'm.m.in.s.is.s.' इतीदृशैरक्षरः कृताः पादा यस्य पञ्चमिश्च यतिर्यत्र तत् ललितपदं नाम अष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- चुलुककुलेति! हे चुलुककुलजलनिधिशशाङ्क ! चुलुककुलमेव जलनिधिः समुद्रः तस्य (वृद्ध) शशाङ्कः चन्द्रः स इव तत्सम्बोधनम्, हे वीर ! युधि- संग्रामे त्वदसिरुचितमसि- त्वत्खङ्गकान्तिरूपे ध्वान्ते वितते विस्तृते सति जयलक्ष्मीः- विजयश्रीः दीनं-कृपणं अतितरलकातरं- अतिचञ्चलमति भीरं च तव- भवतो रिपुनिवहं शत्रुसमूहम् उपेक्ष्य अनादृत्य ललितपदं चित्रपदविन्यासपूर्वं यथास्यात्तथा, भवन्तं- त्वाम् अभिसरति- समुपैति । अन्यापि कामिनी कातरं दीनं च पतिमुपेक्ष्य तमसि वीरं सुन्दरं चान्यं पुरुषमुपैति तथा तवारिं त्यक्त्वा जयलक्ष्मीस्त्वामायातीति भावः । चु[1]लु[]क[1] कु[1] ल[1]ज[1][i] नि[1]धि[1] शा[s][1]त[1] व[1]दी[s]न [s] इति लक्षण समन्वयः । अ० २, सू०-२७२ ॥
यमन्सर्गाः जयानन्दं चैः ॥२७३।। यमनसरगाः । चैरिति षड्भिर्यतिः । यथा- नमच्छकश्रेणीमणिमुकुटकोटी. विटकर, निघष्टाघ्र देव प्रबलजडताचण्डमानो। सुधाधारासाररिव सदसि वाचा प्रपञ्चर्, जयानन्दस्यन्वं सपदि जगतामादधानः ॥ २७३.१ ।। प्रवरललितमित्येके ॥ २७३.१ ॥
-