________________
[अ० २, सू० २७१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २३१ अग्रतः स्फुरिता प्राप्ता । यथा क्वापि सत्कार्याय गच्छतामग्रे समायाता सर्पिणी अमङ्गलसूचिका तथा मोक्षमार्गे गच्छतां यतिनामपि- अग्रतः समागता अङ्गना अमङ्गलसू चिकेति-द्वयोः साधयं विशेषणरुक्त्वा साधितम् । कु[1] टि[1]ल[1]तां[s] [1]त[1] व [1] ती[s]गु[1] [1] भो [s]ग[1]म[1]दो[s]द्ध [1]ता[s] इति लक्षण समन्वयः ॥ २७१।१ । अ० २, सू०-२७० ॥
भ्रनिगा ऋषभगजविलसित छः ।।२७१।। भरी नगणत्रयं गुरुश्च । छरिति सप्तभिर्यतिः । यथा- अद्भुततुङ्गमूर्तिरतिशयललितगतिर्, देव समग्रक्रर्मवनविदलनरसिकः । निर्भरमन्तरङ्गरिपुबलविजयपटुर्, नाथ दधासि तत् त्वमृषभगजविलसितम् ॥ २७१.१ ॥ मत्तगजविलसितमिति भरतः ॥ २७१.१॥
नवमं प्रभेदमाह- भ्रनिगा ऋषभगज विलसितं छै रिति । विवृणोतिभरौ- नगणत्रयं गुरुश्च । छैरिति सप्तभिर्यतिः। भगण-रगणौ नगणत्रयं गुरुश्च 'I.sis.m....' इतीदृशैरक्षरः कृताः पादा यस्य तत् सप्तमिश्चयति युक्तम्- ऋषभगजविलसितं नामाष्टिजातिच्छन्द इत्यर्थः। उदाहरतियथा- अद्भुततुङ्ग ति। हे नाथ ! हे देव ! अद्भुततुङ्गमूर्तिः- अद्भुता आश्चर्यविषया तुङ्गा उन्नतामू मुर्तिर्यस्य सः, अतिशयललितगतिः- अतिशयललिता अत्यन्तमनोहरा गतिर्यस्य सः, समग्रकर्मवनविदलनरसिकःसमग्रस्य अशेषस्य कर्मवनस्य- कर्माण्येव वनं तस्य, कर्माणीव वनन्तस्येति वा, विदलने प्रमर्दने रसिकः उत्कण्ठितः अन्तरङ्गरिपुबलविजयपटुःअन्तरङ्गानां आभ्यन्तराणां रिपूणां शत्रूणां कामादीनां बलस्य; अन्तः स्वस्वामिविषयमध्ये अङ्गति गच्छति इति- अन्तरङ्ग मद्रिपुबलं तस्य वा विजये पटुः कुशलः त्वं निर्भरं स्वच्छन्दं ऋषभगजविलसितम् श्रेष्ठकरिक्रीडां दधासि- धारयसि । अत्र देवे जिने श्रेष्ठ गजे च समानानां विशेषणानां प्रयोगेण साम्यं प्रतिपादितम् । अ[s] []त[1]तु[s]ङ्ग[]मू[s]ति, [1] [1] ति[1]श[1]य[1]ल[1]लि[0]त[1]ग[1]तिः[5] इतिलक्षण सङ्गतिः । अस्य नामान्तरमाह- मत्तगजविलसितमिति भरत इति । भरत आचार्य इदं छन्दो मत्तगज विलसित नाम्ना प्राहेत्यर्थः । सम्प्रति समुपलभ्यमाने [वडोदरा