________________
संवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ० २, सू० २७०.]
अविरलपुलक निचितकुचयुगमयि । रतिरसरभसमणितमुखरितमिह विलसति तव सखि सुरतमचलधृति । २६६.१ ॥
२३०
सप्तमं प्रभेदमाह - नुलावचलधृतिरिति । विवृणोति - नुरिति नगणपञ्चकं लघुश्चेति । तथा च '।।।।।।।।।।।।।।।.।' इतीदृशैरक्षरैः कृताः पादा यस्य तत् अचलधृतिनामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- विलुलितेति । अयि सखि ! विलुलितचिकुरम्- विकीर्णकेशम् अधरनिहितदशनम् - अधरोष्ठस्थापितदन्तम् अविरलपुलकनिचितकुचयुगम् - अविरलैः धनैः पुलकै रोमाञ्चैनिचितं व्याप्तं कुचयुगम् - स्तनयुगलं यस्मिन् तत्, रतिरसरभसम णितमुखरितम् - रतिरसस्य मैथुनान्दस्य रभसेन औद्धत्येन यत् मणितं रतिकूजितम् तेन मुखरितम् - वाचालम् इह - अत्रस्थाने अचलधृति निश्चलधैर्यम् तव - भवत्याः सुरतम् - रति विलसितं विलसति - शोभते । वि [1] लु[1]लि [1] [ 1 ] चि[1] कु[+]र[+]म[+]ध [1]र[1] नि[1] हि [1] त [] द [1]श [1] न [1] म् [ अचलेत्यादि द्वितियपादादिस्वर भक्तो मकार इति न पूर्वपादान्तनस्य गुरुत्वकृत् ] इति लक्षण समन्वयः ॥ अ० २, सू० - २६६ ॥
भौ जिगौ मङ्गलमङ्गना घेः ॥२७०॥
नभौ जिरिति जगणत्रयं गुरुश्व । घंरिति चतुभिर्यतिः । यथा- कुटिलतां धृतवती गुरुभोगमदोद्धता, विदधती प्रलयवेपथुसादपरंपराम् । विषधरीव पुरतः स्फुरिता यतिनामहो, विचरतां सुगतिमार्गममङ्गलमङ्गना ।। २७०.१ ।।
अष्टमं प्रभेदमाह - न्मौ जिगो मङ्गलमङ्गनाद्ये रिति । विवृणोति - न भौजिरिति जगणत्रयं गुरुश्च । द्यैरिति चतुर्भिर्यतिरिति । नगण भगणौ - जगणत्रयं गुरुश्च '1।1.5।.ISI.İSI.ISI. S. ' इतीदृशैरक्षरैः कृता पादा यस्य तत् मङ्गलमङ्गनानामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- कुटिलतामिति । कुटिलतां वक्रगति घृतवती स्वीकृतवती गुरुभोगमदोद्धता - गुरुणा भोगभदेन विलासदर्पेण फणादर्पेण वा उद्वता उच्छृङ्खला प्रलयवेपथु साद परम्पराम्- प्रलयो मूर्च्छा, वेपथुः कम्पः, साद: स्तम्भः तस्य परम्परां श्रेणि विदधती - कुर्वती विषधरी- सर्पिणी इव अङ्गना स्त्री; सुगतिमागं - मोक्षपथं विचरतां तत्र गच्छतां यतिनाम् अमङ्गलम् अपशकुनस्वरूपा पुरतः -