________________
र
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २६७.] चतुर्थप्रकारमाह- मु गौ कामुकीति । विवृणोति- मुरिति मगणपञ्चंगुरुश्चेति । तथा च 'sss.sss.ssssss.sss.s.' इतीदृशैरक्षरः कृताः पादा यस्य तत् कामुकीनामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति-यथा- संवृत्तोऽयमिति। अयं संध्याकाल:- सायं समयः संवृत्त:- अभूत् । भानुः- सूर्यः अस्ताद्रेःअस्ताचलस्य शृङ्ग- शिखरै प्राप्तः, विस्फूर्जद्भिः- प्रसरद्भिः ध्वान्तस्तोमैः- अन्धकार समूहैः काष्ठाचक्रम्- दिशामण्डलम्, एकीभूतम् ऐक्यंगतम्, चापाकृष्टि- धनुर्ध्याकर्षणं व्यातन्वानः-विस्तारयन् कन्दर्पः-कामः अपि उच्चैः अतिशयं क्रीडति- रमते एताः दृश्यमानाः कामुक्यः- कामिन्य अपि त्यक्ताशङ्कां नि:सन्देहं यथा स्यात् तथा क्रीडास्थानं- रतिगृहं गच्छन्ति-व्रजन्ति । सन्ध्यासमये तमसि सर्वतो व्याप्ते कामशरमीताः कामुक्यः परदर्शनस्य सन्देहान्निवृत्ताः पत्या सहरन्तुं क्रीडागृहं यान्तीतिभावः । सं[5]वृ[5]त्तो[s]यं[s] सं[5]ध्या[s]का[s]ल:[5]प्रा[s]प्तो[s]स्ता[5]द्रेः[5][s]ङ्ग[5] भा[s]नु:[s] इति लक्षण समन्वयः ।। अ० २, सू०-२६६ ।।
सुगौ वा ॥ २६७ ॥ सुरिति सगणपञ्चकं गुरुश्चेदियमपि कामुको। यथा- अपयाहि पितामह चित्तविलोमिनि धिक् त्वाम्, अपि कौशिककामुकि न त्वमपि त्रपसे किम् । असि हास्यपदं नलकूबरकामिनि यतः, कुलिशातिदृढेऽत्र जिनेन्द्रहृदि प्रविविक्षा ।। २६७.१ ।। सोमडकमित्यन्ये ॥ २६५.१ ॥
पञ्चमं प्रकारमाह- सु गौवा इति । विवृणोति- सुरिति सगणपश्चकं गुरुश्चेदियमपि कामुकीति । तथा च ISIS.Is.s.is.s.' इतीदृशैर्वणेविन्यासश्चेत्प्रतिपादं तहिं तदपि कामुकीनामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- अपयाहीति । हे पितामह चित्तविलोमिनि ! पितामहस्य ब्रह्मणः चित्तं विलोमयति तच्छीला तस्याः सम्बोधनम् तिलोत्तमे, त्वां धिक् ईदृशमनुचितं कर्मकरोषीत्यतस्त्वं निन्दा पात्रमसिं, अपयाहि- दूरंगच्छ । अयि कौशिककामुकि!- कौशिकस्य इन्द्रस्य विश्वामित्रस्य वा ( व्यञ्जनया-उलूकस्येति-गम्यते ) कामुकि- उर्वशि! त्वमपि न पसे किम् त्वया स्वतएवात्र विषये लज्जा कार्येति भावः, हे नलकूबर कामिनि !- नल