SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २६५-२६६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २२७ भुगौ संगतम् ॥२६५॥ भुरिति पञ्चमगणा गुरुश्च । यथा- वीर तवासिपथेन गौररिभित्रिदिवं, तत्र दिवस्पतिमानिभिराकुलित: प्रबलः । अघ हरिविमृशन् सचिवैः सह तद्विजये, त्वन्नवसंगतकल्पनमोपयिकं मनुते ॥ २६५.१ ॥ पप्रमुखी, सुरतावसथं, उद्धरणं, सोपानकं चान्येषाम् ॥ २६५.१ ॥ तृतीयं प्रकारमाह-भुगौ संगतमिति । विवृणोति- भुरिति पञ्च भगणा गुरुश्चेति । एवञ्च '.s.s.sII.SI.S.' इतीदृशैरक्षरः कृताः पादा यस्य तत् संगतं नामाष्टिजातिच्छन्द इत्यर्थः । उदाहरणम्- यथा-वीर तवासिपथेनेति । हे वीर ! तव- भवतः असिपथेन खङ्गमार्गेण त्रिदिवं- स्वर्ग गतैः प्राप्तः, तत्र स्वर्गे दिवस्पतिमानिभिः आत्मानं दिवस्पति स्वर्गलोकनाथं मन्यन्ते इति तादृशैः प्रबल:- बलशालिभिः अरिभिः- शत्रुभिः आकुलितःत्रस्तः हरिः- इन्द्रः तद्विजये तस्यारेः विजयविषये सचिवैः- मन्त्रिभिः सह विमृशन- विचारयन् त्वन्नवसंगतकल्पनम्- तव भवतः नवं नूतनं संगतम् मित्रत्वम् तस्य कल्पनम् औपयिकम्- उपायभूतं मनुते- स्वीकरोति । त्वदरयस्त्वया खड्गेन च्छिन्नाः स्वर्ग प्राप्य तत्रात्मानमेव तत्रत्यं नाथं मन्यमानाः इन्द्रमपि व्याकुलयन्ति । तद्विजयश्च कथंस्यादिति विचारप्रसङ्गे इन्द्र स्तेषां विजयिनं त्वामेव सख्येन संग्रहीतुमिच्छतीतिभावः वी[1][i]त[1]वा[s]सि[1][1]थे[s]न[1][i][s][1]रि[1] मि[s]स्त्रि[1] दि [1][s] इति लक्षण समन्वयः ॥ अस्यनामान्तराण्याह-पद्ममुखी, सुरतावसथं उद्धरणम् सोपानकं चान्येषामिति । तथा च यथारुचि भिन्न ममिरिदं व्यवहरन्तीति भावः ॥ अ० २, सू०-२६५. ॥ मुगौ कामुकी ॥२६६ ॥ मुरिति मगणपश्चकं गुरुश्च । यथा- संवृत्तोऽयं सन्ध्याकालः प्राप्तोऽस्ताने शृङ्ग भानुर्, विस्फूर्जद्भिवन्तिस्तोमरेकीभूतं काष्ठाचक्रम् । चापाकृष्टि व्यातन्वानः कन्दर्पोऽपि क्रीडत्युच्चर, गच्छन्त्येतास्त्यक्ताशडू कोसस्थानं कामक्योऽपि ॥ २६६.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy