________________
२२६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २६४.] माशयः चिन्तामणि- कल्पलतयो र्धारणात्- सुमेरुपर्वतः स्वात्मानं सर्वतः श्रेष्ठं मन्यते तन्नोचितम् यतः चिन्तामणि: उपल एव [प्रस्तरविशेष एष ] कल्पलतापि तृणमेव, तयोश्च यथा कथंचित् मनसाभीष्टस्य फलस्य प्रदातृत्वम् यत्र च मनसोऽप्यगम्यस्य फलस्य प्रदाता भगवान् नेमिजिनः स्वयमेव वसति स उज्जयन्त एव सर्वेभ्यः पर्वतेभ्यः श्रेष्ठ इति । उ[1]प[1][][][5]स्व [1] रु[s]प[1]चि[s]न्ता[s]म[1]णि[1] क[1]ल्प[1]ल[i]ता[s] इति लक्षण समन्वयः ॥ अ० २, सू०-२६३. ॥
मीः स्गो शरमाला ॥२६४॥ भोरिति भचतुष्टयं सगौ च । यथा- ऐक्षवकार्मुक कोसुमसायक भटमानिन्, मुञ्च चतुर्मुखशंभुचतुर्भुजजयगर्वम् । उत्तमसंयमवर्मवृतात्मनि जिननाथे, संप्रति शम्बरसूदन संहर शरमालाम् ॥ २६४.१ ॥
द्वितीयं प्रभेदमाह- भीः स्गो शरमालेति। विवृणोति- भीरिती भगण चतुष्टय सगौ चेति । भगणचतुष्टयात्परतः सगणो गुरुश्च 'sI.si.sil.sil. 11.5.' इतीदृशैरक्षरः कृताः पादा यस्य तत् शरमालेति नामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- ऐक्षव कार्मुकेति ! हे ऐक्षवकार्मुक ! इक्षोरिदमैक्षवं कार्मुकं धनुः यस्य तत्सम्बोधनम् झटमानिन् ! आत्मानं भटं मन्यते इति सः तत्सम्बोधनम्, कौसुमसायक!- कुसुमैः कृता कौसुमा सायका यस्य: सः तत्सम्बोधनम्, हे काम, चतुर्मुखशम्भुचतुर्भुजजयगर्वम्ब्रह्मविष्णुमहेशवशीकरणाभिमानं मुञ्च- त्यज, हे शम्बर सूदन ! शम्बरारे काम, उत्तम संयम वर्मवृतात्मनि- उत्तमः श्रेष्ठः संयमः बाह्यान्तरिन्द्रियनिग्रह एव वर्म कवचं तेन वृतः पिहित आत्मा स्वरूपं यस्य तादृशे जिननाथे जिनपंती सम्प्रति सद्यः शरमालाम् बाणपङ्किम् संहर सङ्कोचय निवारयेति वा । ब्रह्मादिनपि स्ववशे कुर्वाण स्तवमस्मिन् संयमशीलेऽपि चेत्प्रहरिष्यसि तहि ते सर्वमद्यपर्यन्तं प्राप्तं यशः क्षयं गमिष्यतीति, नात्रत्वया प्रहर्तव्यमिति भावः । ऐ[5]क्ष[i][] का[s], [i]क[s]कौ[s]सु[1]म[1]सा[s]य[1]क[i] भ[1][I]मा[5]निन्[5] इति लक्षण समन्वय: । अ० २, सू०-२६४ ॥