SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [अ० २ सू० २६३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २२५ धत्ते- धारयति, एवम् उक्त प्रकारेण वामारम्भा प्रतिकूलाचरणाऽपि सा बाला पत्युः- प्रीत्यै प्रियस्यानन्दाय भवतीतिशेषः । उ[s]क्त [s]वा[5]चं[s] नो[s]द[5] ते [s]त[s]ल्पे[5]शे [s] ते[1]व्या[s][s] त्ता [5] ङ्गी [5] इति लक्षणसमन्वयः ॥ अ० २, सू०-२६२ ।। अष्टौ नज्रा भौ गो मणिकल्पलता ॥२६३॥ . नजरभभगाः । यथा- उपलतृणस्वरूपचिन्तामणिकल्पलता-, व्यतिकरतो मुधव मेरुर्मदमुद्वहति । जयति यदुज्जयन्त एकोऽयमचिन्त्यफलं, प्रदददलंकरोति नेमिः स्वयमेष जिनः ॥ २६३.१ ॥ इत्थं पञ्चदशाक्षरजातेरतिशवर्या एकविंशतिप्रभेदा वणिताः । प्रस्तारगत्या तु अस्याः ३२७६८ भेदाः भवन्ति। तदुक्तम्- "द्वात्रिंशत्तु सहस्त्राणि, सप्तचैव शतानि च । अष्टौ षष्टिश्च वृत्तानि, ह्याश्रयन्त्यति शक्करीम् ॥ "इति [ भ० ना० शा० १४।६१ ] इत्यतिशक्करी" ॥ अथ षोडशाक्षरपादाया अष्टिजाते दार्वर्णयितुमुपक्रमते- अष्टौ नज़ा भी गो मणिकल्पलतेति । विवृणोति- नजर भभगाः इति । नगणभगणरगणाः भगणद्वयं गुरुश्च 'm.si.sis.sn.sn.s.' इतीदृशैर्वर्णैः कृता पादा यस्य तत् मणिकल्पलतानामकमष्टिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- उपलतृणेति । अत्र पद्ये तृतीयपादे एकोऽयमचिन्त्यफलमिति पाठः समुपलभ्यते, तत्र-एकः अयम्अचिन्त्य फलम्- एवं पदच्छेदो लभ्यते, स च नाथं दृष्टया सामञ्जस्यं याति, "एको, यमचिन्त्यफलं" इत्थं पाठे स्वीकृते तु- यमिति द्वितीयान्तं पृथक्कतूं शक्यत इति मवत्यर्थसङ्गतिरिति तथैव पाठं परिकल्प्य व्याख्यायते । मेरुःसुमेरु पर्वतः उपतृणस्वरूपचिन्तामणिकल्पलताव्यतिकरतः उपलंच तृणं चेति उपलतृणे ते स्परूपं ययोः ते च- चिन्तामणि कल्पलते तयोः व्यतिकरतः सम्बन्धान मुधैव व्यर्थमेव गर्वम- अहङ्कारम् उद्वहति-धारयति, यत्- यस्मात् एकः- अद्वितीयः उज्जयन्तः एतन्नाम्नाख्यातः पर्वतः जयतिसर्वोत्कर्षेण वर्तते, यम् उज्जयन्तम् अचिन्त्यफलं प्रददत् अचिन्त्यं मनसाऽप्यगम्यं फलमभीष्टं वितरन् एष प्रसिद्धः नेमिः- एतनाम्ना प्रसिद्धः जिन:रागादिजय शीलोदेवः स्वयम्- आत्मनैव अलङ्करोति- शोभयति । अय
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy