________________
२२४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २६२.] विशं प्रकारमाह-त्मौ जौ रो मृदङ्ग इति । विवृणोति- तभजजरा इति। नगण-भगणी जगणद्वयं रगणश्च ‘ssi.s1.11.1st sis' इतीदृशैर क्षरः कृताः पादा यस्य तत् मृदङ्गनामकमतिशकरीजातिच्छन्द इत्यर्थः । उदाहरतियथा- कृत्वा जगत्रयजयमिति । मकरध्वजप्रभुः मकरध्वजः काम एव प्रभुः राजा जगत्रयजयं- त्रिभुवनविजयं कृत्वा- विधाय, सपदि- शीघ्र रतेः- स्वपत्न्याः पुरः अग्रे संगीतकं- गानवाद्यादि युक्तं महोत्सवं कारयते विदधाति । तदित्थम्- आकाश रङ्ग भवने- आकाशरूपे प्रेक्षागृहे विद्युत् सौदामिनी (एव) नर्तकी नृत्यशिल्पिनी नरिनति भृशं नृत्यति, धनतुः मेघकाल: अपि- मेघमृदङ्गवादक:- मेघा एव मृदङ्गास्तेषां वादकः अस्ति । अयमर्थः मेघर्तोः प्रारम्भ एव सर्वं जगत्काम वशंबदं भवति, ततश्च कामोदिग्विजयोत्सवे सौदामिनी नर्तकी मेघरूपमृदङ्गावादकं च वर्षतुं विधाय प्रीणयतीति । क[s]त्वा[5]ज[1]गत्[5]त्र[1]य[1]ज[1]यं [s]म[1]क[i] र[s] ध्व[1]ज[s]प्र[s]भुः[5] इति लक्षणसङ्गतिः ॥ अ० २, सू०-२६१. ।।
मुः कामक्रीडा ॥२६२॥ मुरिति पञ्च मगणाः । यथा- उक्ता वाचं नो दत्ते तल्पे शेते व्यावृत्ताङ्गी, पर्याक्षिप्तक्षोमप्रान्ता प्रस्थातुं काङ्गत्याशु । कामक्रीडावार्तागोष्ठीप्रारम्भेऽप्युचाडां, पत्ते पत्यूः प्रीत्यै वामारम्भाप्येवं सा बाला ॥२६२.१ ॥१५॥२१॥
एकविशं प्रकारमाह- मुः काम क्रीडेति । विवृणोति- मुरिति पञ्चमगणाः इति । तथा च 'sss.sss.sss.sss.sss.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् कामक्रीडानामकमतिशक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथाउक्ता वाचमिति । उक्ता किञ्चित्पृष्टाऽपि वाचं- प्रत्युत्तरवाक्यं नो दत्तेनैव वितरति, तल्पे- शय्यायां व्यावृताङ्गी-पराङ्गमुखशरीरा शेते- शयनक्रियां नाटयति, पर्याक्षिपृक्षौमप्रान्ता पर्याक्षिप्तः शरीरात्पृथक् विकीर्णः क्षौमप्रान्तः- वखाग्रभागः यस्याः तथा सती आशु- शीन प्रस्थातुंबहिर्गन्तुं कांक्षति- इच्छति- [नतु गच्छति] कामक्रीडा वार्ता गोष्ठी प्रारम्भे अपि कामक्रीडावातार्थ इति विलासचर्चाय गोष्ठयाः सखीभिः सहालापप्रसङ्गस्य प्रारम्भेऽपि प्राथमिकस्थिता वपि उच्चैः- अत्यन्तं क्रीडां- लज्जां