SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २६०-२६१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २२३ दूरात्- बहुव्यहितस्थानादपि लीलाध्वनितेन- क्रीडाप्रसङ्गकृतगर्जनेन त्रस्यन्ति बिम्यति । यथा सिंहशिशुमपश्यन्तोऽपि तच्छन्दश्रवणेनैव गजेन्द्रा अपि त्रासंलभन्ते तथा तवादर्शनेऽपि तव वचसैव लोकानांपापं नश्यतीति भावः । त्वं[s]ना[s]सि[i][i] शो[s]प[1]थि[1]वि[1] मु[5]क्त [1]त[1]पा[s]पि[1] ना[5]थ [1] इति लक्षणसमन्वयः ॥ अ० २, सू०-२५६ ॥ भ्यसस्याः केतनम् ॥२६०॥ मयससयाः । यथा- कोकिलवधूनां कलपञ्चमरागगीतिश, चूतविटपानां नवपलवसंपदश्च । दक्षिणसमीरो मृगशावहशां कटाक्षाः, बिभ्रति हि जंत्रायुषतां झषकेतनस्य ॥ २६०.१ ॥ ऊनविशं प्रकारमाह- भ्यसस्याः केतनमिति । विवृणोति भय ससया इति । भगण-यगणो सगणद्वयं यगणश्चेति 'su:ISS.S.IS.Iss.' इतीदृशैरक्षरः कृता पादा यस्य तत् केतनं नाम अतिशक्करी जातिच्छन्द इत्यर्थः । उदाहरतियथा- कोकिल वधूनामिति । कोकिलवधूनां- पिकीनां कल पञ्चमरागगीतिः कला अव्यक्तमधुरा पञ्चमरागस्य स्वनामप्रसिद्धस्य गीतिः गानम्, चूतविटपानाम्- आम्रशाखानाम् नवपल्लव सम्पदः- नूतनपत्र सम्पत्तयः, दक्षिणसमीरः- दक्षिणदिग्भवो मलयवायुः, मृगशावदृशां मृगशावस्य हरिणपोतस्य हक् इव हक् यासाँ तासामङ्गनानां कटाक्षा:- साकुतविलोकनानि च झषकेतनस्य मीनध्वजस्य कामस्य जैत्रायुधतां विजयिशस्त्रतां बिभ्रति- धारयन्ति हि इति निश्चये। कामः पुष्प बाणतया केवलं प्रसिद्ध एव, अस्यायुधकृत्यं तु कोकिल गीतादिभिरेव सम्पाद्यत इति भावः । को[s] कि[1] ल [1] व [1] धू [s]नां[5]क[]ल[1][s]च[1]म[1]रा[5]ग[1]गी[s] तिः[5] इति लक्षण समन्वयः ॥ अ० २, सू०-२६० ॥ त्मौ जौ रो मृदङ्गः ॥२६१॥ तमजजराः। यथा-कृत्वा जगत्त्रयजयं मकरध्वजप्रभुः, संगीतकं सपदि कारयते रतेः पुरः । आकाशरङ्गभवने नरिनति नर्तकी, विद्युत्, धनतुरपि मेघमृदङ्गवादकः ॥२६१.१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy