________________
२२२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २५६.] निद्रामुपेन्द्रः । विदधतु दिगिमाः करेणुकामिविलासं, सममभिरमतां च वासुकि गिनीमिः ॥ २५८.१॥
सप्तदशं प्रकारमाह- नौ रो यो भोगनीति । नगणद्वयं रगणः यगणद्वयं च'.m.sis.Iss.Iss.' इतीहशैरक्षरः कृताः पादा यस्य तत् भोगिनीनामक मतिशक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- दधति तवेति । हे चुलुक्य चन्द्र ! चुलुक्य वंश प्रदीप । अम्मिन् विश्रुते तव भुजे- बाहो धात्री- पृथ्वीं दधति- धारयति सति उपेन्द्रः- विष्णुः जलनिधौसमुद्रे चिराय- बहुकालं. निद्रां- स्वापं भजतु- सेवताम्, दिगिभाः दिग्गजाः करेणुभिः- हस्तिनीभिः सह विलासं- रतिक्रीडां विदधतुकुर्वन्तु, वासुकि:- नागराजश्व भोगिनीभिः- नागीभिः समं- सह अभिरमताम्- रतिक्रीडामनुभवतु । अयमाशयः विष्णुः, दिग्गजाः नागराजश्च पृथ्वीपालने तदुद्वहने च लग्नाः भवन्ति, किन्तु तेषां सर्वेषामेव कायं त्वदीय बाहुनव सम्पादितमिति ते सर्वेः निर्भराः सुखं तिष्ठन्त्विति । द[1][1]ति[1] त[1]व[1] [[]]लु[s] क्य[1]चं[5][s]धा[5]त्रीं[5] भु[]जे[5]स्मिन्[s] इति लक्षण समन्वयः ।। अ० २, सू०-२५८ ॥
त्जसस्याः शिशुः ॥२५९|| तजससयाः । यथा- त्वं नासि दृशोः पथि विमुक्त तथापि नाथ, पापं भुवने तव गिरो जिन नाशयन्ति । त्रस्यन्ति हि शैलशिखरान्तरितस्य दूराल लीलाध्वनितेन मृगराजशिशोर्गजेन्द्राः ॥२५६.१॥ ..
अष्टादशं प्रकारमाह-जसस्याः शिशुरिति । विवृणोति- तजससयाः इति । तगण जगणी सगणद्वयं मगणश्च 'ss.sI.S.S.Iss.' इतीहौरक्षरैः कृताः पादा यस्य तत् शिशुनामकं जगतिजातिच्छन्द इत्यर्थः । उदाहरतियथा- त्वं नासीति । हे नाथ स्वामिन्- ! जिन ! विमुक्त ! कर्मरागादिबन्धन- रहित ! त्वं दृशोः पथि नेत्रद्वयविषयः न- असि न भवसि, तथापि तव गिरः- उपदेशवचनानि भुवने- संसारे पापं- कल्मषं नाशयन्ति घ्नन्ति । हि यतः गजेन्द्रा:- महागजाः शैलशिखरान्तरितस्य- पर्वतकूटव्यवहितस्य [अपि] मगराजशिशोः सिंह- शावकस्य